________________
पश्जिकासमेतः।
२५५ यदिदं घटाभावे पटाभावे शशविषाणायभावे वाऽभावोऽभाव इत्यनुगामिज्ञानं प्रवृत्तं तत्रास्मामिरसत्यपि सामान्येऽनुगतप्रत्ययदर्शनाव्यर्थाऽन्यत्रापि सामान्यकल्पनेति चोदितम् , न तु सजातीयानां बहूनां घटादीनां ये प्रागभावादयस्तत्र यज्ज्ञानं (तत्र) । यदि नामैवं ततः किमित्याह-उपाधिस्थं चेत्यादि । घटायुपाधिगतं यसामान्यं घटत्वादि, तत्स्वाश्रयेष्वेव घटादिषु वर्त्तते, नाश्रयान्तरे पटादौ, तत्कथं विजातीयपटादिगतप्रागभावादौ तस्मात्प्रत्ययः स्यादिति भावः ॥ ७८७ ।। सर्वत्रैकमनुगामि सामान्यमस्तीति चेदाह-नचेत्यादि ।
नचानुयायि तेष्विष्टमन्यत्सत्त्वं यदीष्यते ।
न षडातिरेकेण जायन्तेऽभावबुद्धयः ॥ ७८८ ॥ नहि सकलपटादिविजातीयानेकपदार्थव्याप्यपरं सामान्यमस्ति, यतोऽसौ प्रत्ययो भवेत् । स्यान्मतं सत्ताख्यं महासामान्यमस्ति तद्बलादभावप्रत्ययो भविष्यतीति, तद्युक्तम् , व्यभिचारात् । तथाहि-षटपदार्थव्यतिरेकेणापरस्य प्रतिसङ्ख्या निरोधादेः पदार्थस्याभाव इति भवतामभावबुद्धयो याः समुदाचरन्ति, तथोत्पाद्यकथारचितानां कपिजलादीनामभावः परमार्थत इति मतयस्तासु कतमदुपाधिगतं सामान्यं, यत्तासां निमित्तं स्यात् । न ह्येषां प्रतिसङ्ख्या निरोधादीनां सत्त्वमस्ति भवन्मतेन । एतेनैतदपि प्रत्युक्तं यदुक्तं कुमारिलेन-"ननु च प्रागभावादी सामान्य वस्तु नेष्यते । सत्चैव ह्यत्र सामान्यमनुत्पत्त्यादिरूपते"ति । अनुत्पत्त्यादिरूपता-अनुत्पादादिविशिष्टतेत्यर्थः । अत्रापि ह्ययमेव दोषः । नहि मतान्तरीयानां पदार्थानामुत्पाद्यकथार्थानां च सत्तास्ति, येन तदभावप्रतीतिः स्यात् । तदध्यवसायिविकल्पसत्ता तत्र बहिरर्थशून्या प्रतीयत इति चेत् । यद्येवं नित्यैकसत्तारहितो विकल्पमात्रात्मक एम सकलशब्दार्थः किं नेष्यते । अन्यथा हि नित्यैकसत्तादिरूपसामान्याभ्युपगमे सत्तापुरुषत्वादीनां सर्वत्र स्वभेदे निरतिशयत्वात्कथं भिन्नरूपा प्रतीतिः स्यादिति बोधं दुष्परिहारमेव स्यादिति ॥ ७८८ ॥ । इदानीमिच्छारचितरूपेषु नष्टाजातेषु चैतत्समर्थनमाह-इच्छारचितेत्यादि ।
इच्छारचितरूपादावर्थे जातिर्न विद्यते। व्यक्तरसम्भवादेव स्थिता तद्व्यभिचारिता ॥ ७८९ ॥ अतीतानुपजातेषु नित्यसामान्यगोचरम् । ज्ञानं घेत्केवलं चेदं सामान्यं गृह्यते न तु ॥७९० ॥