________________
तत्त्वसङ्ग्रहः । विशेषणविशेष्यत्व सम्बन्धोऽप्यस्ति चेदिह । सम्बन्धान्तरसद्भावे ननु चासौ प्रकल्प्यते ॥ ७८३ ॥ तयोरासत्तिमाश्रित्य विशेषणविशेष्यता । कल्प्यते तदभावे तु साऽनिमित्ता न सिद्ध्यति ॥ ७८४ ॥ ५ साह | घटत्वादीनां सामान्यानां घटादिभिः समवायलक्षणः सम्बन्धः, अभावानां तु विशेषणविशेष्यभावलक्षणस्ततश्च सामान्याभावयोरेकार्थसम्बन्धोऽत्रापि व्यपदेशहेतुरस्त्येवेति । तदत्र प्रतिविधानमाह — सम्बन्धान्तरेत्यादि । सम्बन्धान्तरोपजनितो हि भावानां परस्परं विशेषणविशेष्यभाव:, तद्यथा दण्डदेवदत्तयो राजपुरुषयोश्च संयोगस्वस्वामिभावादिकं सम्बन्धमाश्रित्य विशेषणविशेष्यता, तस्य तु सम्बन्धान्तरस्य विशेषणविशेष्यभावं प्रति निमित्तभूतस्याभावे सा विशेषणविशेष्यता कथमिव भवेत्, अन्यथा ह्यतिप्रसङ्गः स्यात् । एवं हि सर्व सर्वस्य विशेषणं भवेत् ।। ७८३ ।। ७८४ ॥
२५४
कथमिदानीं घटस्य प्रागभाव इत्यादिविशेषणविशेष्यभावो लोके सम्बन्धमन्तरेण प्रतीत इत्याह - घटस्येत्यादि ।
घटस्य प्रागभावोऽयमित्यादि वचनं पुनः । कल्पनामात्रनिर्माणं कल्पिते शूरतादिवत् ॥ ७८५ ॥ विशेषणविशेष्यत्वं यत्र वस्तुसमाश्रयम् । सम्बन्धान्तरसद्भावस्तथावश्यं प्रकल्प्यते ॥ ७८६ ॥ प्रागभूत्वाभवतीत्येतन्मात्रार्थजिज्ञासाया बुद्धिरियं कल्पिका भावादर्थान्तरभूतमिव सम्बन्धेन प्रागभावमुपदर्शयन्ती प्रसूयते । तदभिप्रायवशादत्र विशेषणविशेष्यभावः, नंतु वास्तवः । यथा कल्पनाशिल्पिघटितस्य शूरत्वादयो धर्मा विशेषणत्वेनोपादीयन्ते । यत्र तु भवद्भिर्वस्तुसमाश्रयो विशेषणविशेष्यभावो गृहीतस्तत्रावश्यं सम्बन्धान्तरमन्वेषणीयमन्यथा व्यवस्थानियमो न स्यात् ॥ ७८५ || ७८६ ॥
अपिचायं न नवो (नश्चो ?) द्यानुरूप एव परिहारः शङ्करखामिनोक्त इति दर्शयनाह - अभावोऽभाव इत्यादि ।
अभावोऽभाव इत्येव ज्ञानमत्रावचोदितम् । उपाधिस्थं च सामान्यं स्वाश्रयेष्वेव वर्त्तते ॥ ७८७ ॥