________________
पञ्जिकासमेतः ।
अद्रव्यादिधियो हेतुर्न गुणत्वादि युक्तिमत् । अनेकसमवायश्च न सामान्यधियस्ततः ॥ ७७८ ॥
अतिप्रसङ्गश्वास्यामपि कल्पनायामिति दर्शयन्नाह — अनेकेत्यादि ।
अनेकसमवायश्च सङ्ख्यादिष्वपि विद्यते । सामान्येष्विव तेषु स्युः सामान्यमिति बुद्धयः ॥ ७७९ ॥ “यद्यनेकार्थसमवायः सामान्येषु सामान्यधियो निबन्धनं स्यात्, तदा सङ्ख्यासंयोगविभागावयविद्रव्यादिष्वनेक द्रव्याश्रितत्वमस्तीति तेष्वपि सामान्यमिति धियः स्युर्निमित्ताविशेषात् । एकबुद्धिहेतुत्वमपि सत्तादीनां सदाद्याकारेण स्वात्मनियतत्वान्न सामान्यान्तरमास्कन्दति, ततश्च तद्बलेनापि न सामान्येषु सामान्यं सामान्यमित्यनुगतः प्रत्यय उपपद्यते । ततश्चासम्बद्धमिदं कुमारिलेनोक्तम् - " तस्मादेकस्य मिन्नेषु या वृत्तिस्तन्निबन्धनः । सामान्यशब्दः सत्तादावेकधीकरणेन वेति ॥ ७७९॥ एवं तावद्वैलक्षण्यादित्येतद्व्याख्यातम्, अतदाश्रयादित्येतद्व्याचिख्यासुराह - घटत्वादि चेत्यादि ।
1
"
२५३
घटत्वादि च सामान्यं घटादावेव वर्त्तते । नाभावेष्वस्य वृत्तिस्तु तस्मात्तेषु कथं नु धीः ॥ ७८० ॥ नाश्रयान्तरवृत्ताद्धि युक्तावन्यत्र धीध्वनी । हस्तित्वादिव कर्कादावत्रैकार्थाश्रयोऽपि न ॥ ७८१ ॥ रसः शीतो गुरुश्चेति स्यादेकार्थाश्रयान्मतिः । इहायमपि नैवास्ति नाभावो वर्तते कचित् ॥ ७८२ ॥ घटादिष्वेव सामान्यं समवेतं नाभावेषु तस्यावस्तुत्वात् । तत्कथं तेष्वभावेषु तस्माद्घटत्वादेरन्यसमवायिनः सामान्यानुकारानुगतः प्रत्ययो भवेत् । नहि गजत्वादि कर्कादिष्वेकाकारप्रत्ययनिबन्धनं भवति । ननु चान्यत्र समवेतादप्यन्यत्र प्रत्ययो दृष्टस्तद्यथा मधुरो रसः स्निग्धः शीतो गुरुश्चेति । अत्राह – एकार्थाश्रयोऽपि नेति । यत्रैव हि द्रव्ये माधुर्यं समवेतं तत्रैव शीतत्वादयोऽपीत्येकार्थसमवायबलादत्र भवति सामानाधिकरण्यम्, न तु पुनरभावो घटत्वादिसामान्यैः सह कचिदप्येकस्मिन्द्रव्ये समवैति । नीरूपस्य क्वचिदपि समवायायोगात् ॥ ७८० ।। ७८१ ।। ७८२ ॥ विशेषणेत्यादिनाऽत्रोद्योतकरस्य परिहारमाशङ्कते ।
1