________________
२५२
तत्त्वसहः ।
तत्रैवोपचयमाह-अनुरूपो हीत्यादि ।
अनुरूपो हि संसर्गी स्थादित्यन्यार्थकल्पना। वैलक्षण्ये तु बुद्धीनामियदेवाश्रितं वरम् ॥ ७७५ ॥ सामर्थ्यनियमो यत्र कल्पनीयो वरं स च ।
अन्वयव्यतिरेकाभ्यां कल्पितो ज्ञातशक्तिषु ॥ ७७६ ॥ तथाहि भवद्भिः सामान्यबुद्धीनामनुरूपमालम्बनाख्यं हेतुं निरूपयद्भिः भेदन्यबुदस्य सामान्यमुपकल्पितम् , यदि च तदपि कल्पितं सामान्यमन्याकारा अपि बुद्धीर्जनयति तदा वरमियदेव, यदेव यथोपवर्णितं दृष्टसामर्थ्य कल्पितं भवेत् । एवं ह्यदृष्टार्थकल्पना न कृता स्यात् । अपिच कथमभिन्नं सामान्यं विलक्षणा बुद्धीजनयतीति पृष्टेन सता वक्तव्यमिदमवश्यं, यदुत शक्तिप्रतिनियमोऽयं पदार्थानां यदेकमपि सदनेकाकारप्रत्ययोपजननायालमिति । यद्येवं, ज्ञातशक्तिषु निश्चितसाम
र्येषु भेदादिष्वेव सामर्थ्यनियामकमिति न कल्प्येत । एवं हि नानुभवविरुद्धमनुष्ठितं स्यात् ॥ ७७५ ॥ ७७६ ॥ ' स्यादेतत्सामान्यस्याप्यन्वयव्यतिरेकाभ्यां सामर्थ्य निश्चितमेवेत्याह-अन्वयेत्यादि।
अन्वयानुविधानं च सामान्येषु न विद्यते।
सदाऽसत्त्वान्न नित्यानां व्यतिरेकस्तु संभवी ॥ ७७७ ॥ सदा सदादिप्रत्ययानामसत्त्वादनुत्पत्तेर्नैषां तद्गतान्वयानुविधायित्वं युक्तम् । यदि होते सामान्यानुविधायिनः स्युस्तदा सर्वदा सामान्यस्यावस्थितत्वात्किमिति सदा न भवेयुः, नहि सामान्यस्य काचिदपेक्षास्ति, परैस्तस्यानुपाधेयविशेषत्वादतो न तद्गतान्वयानुविधानमेषाम् । नापि व्यतिरेकानुविधानम् , तथाहि—यदाऽमी सदादिप्रत्यया नोत्पद्यन्ते तदा तत्र सामान्याभावः कारणमिति न शक्यं वक्तुम् , नित्यानां सदाऽवस्थायितया व्यतिरेकासम्भवात् , अतो नापि तद्गतव्यतिरेकानुविधानमेषामस्ति ॥ ७७७ ॥
यतश्चैवं निमित्तान्तराभ्युपगमे सामान्यादिधियां दोषस्तस्माद्यत्परैरुच्यते गुणत्वादिरेव सामान्यविशेषो गुणादिष्वद्रव्याकर्मादिप्रत्ययहेतुः, सामान्येषु च सत्चादिषु सामान्यमित्यनुगतप्रत्ययस्यानेकार्थसमवायो निमित्तमिति, तदपास्तं भवतीत्येतदाहअद्रव्यादीत्यादि।