________________
२५१
पलिकासमेतः। न कोपाधिनिबन्धना मिनाकारा बुद्धयो युक्ताः, एकेनैव सर्वसामान्यकार्यसाध. नादनेकसामान्यकल्पनावैयर्थ्यप्रसङ्गात् । तस्माद्धटत्वादिसामान्यवशाङ्कट इत्यादिका धियो भवन्तु, अभाव इत्यादिकास्तु कथमिवात्यन्तविलक्षणास्तग्निबन्धना युज्येरन् , *नहि सत्तावशागोत्वादिधीर्भवेत् ॥ ७६७ ॥ ७६८ ॥ ७६९ ॥ ७७० ॥
भाविविक्तस्वाह-नहि सर्वत्र निमित्तानुरूपः प्रत्यय इष्यते । तथाहि-गजतुरगधवखदिरादिसमवायिनी बहुत्वसङ्ख्या सेनावनादिबुद्धीनां निमित्तं, पानककाशिकादिषुद्धीनां विजातीयद्रव्यसंयोगो निमित्तम् , अन्यथाहि बहवः संयुक्ता इति च प्रत्ययः स्यादिति । तदेतन निमित्तेत्यादिनाऽऽशङ्कय यद्येवमित्यादिना प्रतिविधत्ते ।
न निमित्तानुरूपा चेत्सर्वस्मिन्बुद्धिरिष्यते । यतस्सेनादिबुद्धीनां सङ्ख्यादीष्टं निबन्धनम् ॥ ७७१ ॥ यद्येवमियमेष्वेव भेदेष्विष्टा न किं मतिः।
इच्छारचितसङ्केतभेदाभोगानुसारिणी ॥ ७७२॥ इयमिति । सामान्यधीः । सङ्केतस्य भेदो विशेषः ॥ ७७१ ॥ ७७२ ।। कः पुनरत्रातिशयो येनैवमुच्यत इत्याह-भेदेत्यादि ।।
भेदज्ञाने सतीच्छा हि सङ्केतकरणे ततः। तत्कृतिस्तछुतिश्चास्या आभोगस्तन्मतिस्ततः ॥ ७७३ ॥ अन्वयव्यतिरेकाभ्यामिदमेव विनिश्चितम् ।
समर्थ कारणं तस्यामन्येषामनवस्थितिः ॥ ७७४ ॥ अन्वयव्यतिरेकसमधिगम्यः कार्यकारणभावः, स च सामान्यधियं प्रतीच्छारचितसङ्केताभोगमात्रस्य निश्चितः । तथाहि-प्रथमतरं तावद्भेदविषयमनुभवज्ञानमुत्पद्यते, तस्मिन्नुत्पन्ने सङ्केतकरणेच्छा जायते, ततश्चेच्छातस्तस्य सङ्केतस्य कृतिःकरणम् , ततस्तस्यैव व्यवहारकाले श्रुतिः-श्रवणम् , अस्याश्च श्रुतेः सकाशादुत्तर। कालमाभोगो यथा श्रुतसङ्केतविषयः, ततश्चाभोगात्तेष्वेव भेदेषु तदध्यवसायेन प्रवृ
घट इत्यादिका मतिरुदयमासादयति । आगोपालमेतावन्मात्रमेवास्यां बुद्धौ कारणत्वेन निश्चितम् । अपरिदृष्टसामर्थ्यस्य तु सामान्यस्य कारणत्वोपकल्पनेऽतिप्रसङ्गः स्यात् , बदपि कल्पयित्वाऽपरमप्यदृष्टसामर्थेन तुल्यत्वात्किमिति न कल्प्येत॥७७३॥ ॥७७४॥