________________
२५०
तत्त्वसङ्ग्रहः ।
सर्वत्र विजातीयव्यवच्छेदस्य विद्यमानत्वात् । यत एवं गवादिष्वपि यथासङ्केतममिनाकारव्यवसायिनः प्रत्ययाः शब्दाश्च प्रवर्तिष्यन्ते विनापि सामान्यमित्यनैकान्तिकता हेतोः ॥ ७६४ ॥ ७६५ ॥ तथा चेत्यादिनाऽभावेऽभावबुद्धिश्चेत्येतत्समर्थयते ।
तथा चाभावविज्ञानं नाभावेषु विरुध्यते।
ध्वनिर्वाऽनुगतोऽनर्थसङ्केतानुगमात्तयोः ॥७६६ ॥ इदमेव हि सामान्यप्रत्ययस्य निबन्धनं व्यापि यदुत सङ्केताभोगः, अन्यथा पभावेष्वभाव इत्यनुगतः प्रत्ययो ध्वनिश्च केन न विरुध्येत, न पत्र जातिरस्ति वस्तुसमवायिनीत्वात्तस्याः । कस्मान्न विरुध्यत इत्यत्र कारणमाह-अनर्थसङ्केत्तानुगमात्तयोरिति । अविद्यमानो जात्यादिरों यस्मिन्सङ्केते स तथोक्तः, तस्मादनुगमात -अन्वयात् तयोः-ध्वनिविज्ञानयोः। शब्दज्ञानयोः सङ्केतमात्रान्वयव्यतिरेकानुविधायित्वादिति यावत् ॥ ७६६ ॥ घटस्येत्यादिना शङ्करस्वामिन उत्तरमाशङ्कते ।
घटस्य प्रागभावोऽयं घटप्रध्वंस इत्ययम् । तद्वस्तूपाधिकानेव धीरभावान्प्रपद्यते ॥ ७६७ ॥ उपाधिगतसामान्यवशादेवानुवृत्तता। तस्याः सर्वत्र चेन्नैवं वैलक्षण्यातदाश्रयात् ॥ ७६८ ॥ घट इत्यादिका बुद्धिस्तेभ्यो युक्ताऽनुगामिनी। नाभावो भाव इत्येषा तन्मतिस्तु विलक्षणा ॥ ७६९ ॥ नहि सत्तावशाबुद्धिौरश्व इति चेष्यते ।
एकमेवान्यथा कल्प्यं सामान्यं सर्वसाधनम् ॥ ७७० ॥ स ह्याह न हि तेष्वभावेष्वनुपाधिकाः प्रत्यया दृश्यन्ते, किं तर्हि ? घटस्य प्रागभावः घटस्य प्रध्वंसाभावः इत्येवं सर्वत्रामावप्रत्ययो वस्तूपाधिकानेवाभावानवलम्बते । तस्मात्सर्वत्रैव तस्या धिय उपाधिगतसामान्यवशादेवानुवृत्तेति नास्ति व्यमिचार इति । तस्या इति । धियः प्रकृतत्वात्संबन्धः । नैवमित्यादिना प्रतिविधत्ते । बैलक्षण्यसहितोऽतदाश्रय इति विग्रहः । समाहारद्वन्द्वो वा । वैलक्षण्यादतदाश्रयाच नैव युक्तमित्यर्थः । तत्र वैलक्षण्यादित्यस्य तावद्विस्तरेण समर्थनमाह-घट इत्यादि ।