________________
२४९
पत्रिकासमेतः। स्थापि नित्यत्वप्रसङ्गात् , तत्सम्बद्धस्वभावाया जातेः सदावस्थितत्वात् । नहि द्वितीयसम्बन्ध्यभावे तत्सम्बद्धस्वभावावैगुण्यं युक्तम् ॥ ७६१ ॥ पचनादीत्यादिनोद्योतकरविहितं परिहारमाशङ्कते ।
पचनादिक्रियायाश्च प्रधानं साधनं मतम् ।
पाचकादीति तचास्ति प्राधान्यं पाचकान्तरे ॥ ७६२ ॥ स ह्याह-हेत्वर्थापरिज्ञानादिदमुच्यते । यथा पाचकादिशब्दा अनुवृत्ताश्च भवन्ति, नच पाचकत्वं नाम सामान्यमस्ति, तथा गवादिष्वनुवृत्तिप्रत्यया इति । यस्माद्विशेषप्रत्ययानामनाकस्मिकत्वादित्यस्य हेतोरयमर्थः । पिण्डप्रत्ययव्यतिरिक्तप्रत्ययस्य निमित्तान्तरादुत्पाद इति, न पुनः सर्वोऽनुवृत्तिप्रत्ययः सामान्यादेव भवतीति । एवं सति पचनक्रियाया यत्प्रधानं साधनं तत्पाचकशब्देनोच्यते, तच प्राधान्यं पाचकान्तरेऽप्यस्तीति न दोष इति ॥ ७६२ ॥ तदेतत्वाधान्यमित्यादिना प्रतिविधत्ते ।
प्राधान्यं किमिदं नाम न शक्तिरसमन्वयात् ।
द्रव्यक्रियागुणात्मादि नात एवावकल्प्यते ॥ ७६३ ॥ किमिदं प्राधान्यं नाम, यदि शक्तिः, तदयुक्तम् , तस्याः प्रत्याधारनियताया व्यत्यन्तरासमन्वयात् । नापि द्रव्यादीनामात्मा स्वभावः स्वातत्र्यमत एवासमन्वयात् । आदिशब्देन षट्पदार्थव्यतिरिक्त इष्टो धर्मो गृह्यते । यत्पुनरुक्तं निमित्तान्तरादुत्पाद इत्यस्यायमर्थ इति, तत्र प्रतिविहितमेव सामान्येन किंचिन्निमित्तान्तरमस्तीति साधने सिद्धसाध्यता, सङ्केतमनस्कारस्य निमित्तत्वेनेष्टत्वात् , विशेषेण त्वन्वयवैकल्यं व्यभिचारश्च पाचकादिप्रत्ययैरिति ॥ ७६३ ॥ तदित्यादिनोपसंहरति ।
तद्विजातीयविश्लेषिरूपमात्रावसायिनी । सङ्केतभेदसापेक्षा पाचकादिषु शेमुषी ॥ ७६४ ॥ यथासङ्केतमेवातः शब्दा बुद्धय एव च ।
विभागे न प्रवर्तन्ते विनैकेनानुगामिना ॥ ७६५ ॥ तत्-तस्मात् , यद्यतो निमित्तान्तरं निरूप्यमाणं पाचकादिधियो नोपपद्यते । तस्मात् । विजातीयस्य व्यवच्छिन्नवस्तुमात्राध्यवसायिनी यथासमयं पाचकः पाचक इत्येवमाकाराऽनुगता मिनेष्वपि वस्तुष्वभेदेन पाचकाविषु शेमुषी-धीरुपजायते,