________________
२४८
तत्त्वसङ्ग्रहः ।
स्यादेतदेकदा जातेर्लक्षितत्वादुपरतेऽपि कर्मणि तदाधारे प्रवर्त्तत एव तनिबन्धनप्रत्यय इत्याह-- दण्डेत्यादि ।
दण्डाङ्गदादिजातीनामेकदा न हि लक्षणे । तद्वियोगेऽपि दण्ड्यादिमतिस्तेषु प्रवर्त्तते ॥ ७५७ ॥ अथापि पाचकत्वादिजातिरन्यैव वर्त्तते । सद्योजातेऽपि तद्योगात्पाचकादिमतिर्भवेत् ॥ ७५८ ॥ सदादिमतिवन्नो चेत्तदा सा समवायिनी । पश्चादपि न सा तत्र तथा स्यादविशेषतः ॥ ७५९ ॥ तत्सम्बद्धस्वभावस्य वैगुण्यान्न तयोरसौ । समवायस्तथा पश्चात्तादात्म्ये च कथं भवेत् ॥ ७६० ॥
एवं ह्यतिप्रसङ्गः स्यात् नहि दण्डादिजातीनामेकदा लक्षितत्वात्परित्यक्तदण्डेष्वपि तेषु देवदत्तादिषु दण्डी कुण्डलीत्यादिमतिर्भवेत् । नच पाचकत्वादिजातिरत्राप्यस्तीति युक्तं, सद्योजातेऽपि जातेर्विद्यमानत्वात्पाचकादिबुद्धिप्रसङ्गः स्यात् । स्यादेतद्यथा सत्तानिबन्धनापि सदिति मतिर्भवन्ती न सर्वदा भवति, तथा जातिरप्याश्रयविशेषसमवायिनी भवन्ती न सर्वदा भविष्यति, तेन सद्योजातावस्थायां जातिर्नैव समवायिनी भविष्यति । समवायिनीत्युपलक्षणम्, नाभिव्यक्तेत्यपि ज्ञेयम् । एवं तर्हि न कदाचिदपि सा तत्समवायिनी प्राप्नोति । तथाहि — प्रथमतरं तयोर्जातिद्रव्ययोस्तत्सम्बद्धस्वभाववैगुण्यान्न समवायो जातेः, पश्चादपि तद्वैगुण्यं तदवस्थमे - वेति कथं सा समवेयात्, नहि द्रव्यं भवतां मतेन क्षणिकं, येन पश्चाद्विशिष्टता तस्य भवेत् । तथेति । समवायिनी । तयोरिति । जातिद्रव्ययोः । तादात्म्य
1
इति । अपरित्यक्तप्राक्तनविगुणरूपत्वे ।। ७५७ ॥ ७५८ ।। ७५९ ।। ७६० ॥ अथापि द्रव्यमनित्यमङ्गीक्रियते तदापि दोष इति दर्शयन्नाह - यदि नामेत्यादि । यदि नामावा व्यक्तिर्लभेतातिशयं तदा ।
जातेस्तु विगुणं रूपं न कदाचिन्निवर्त्तते ॥ ७६१ ॥
यदि नामाधुवतया व्यक्तिरतिशयं पश्चाल्लभते जातेस्तु ध्रुवत्वात्प्राग्वत्पश्चादपि तत्समवायविगुणं रूपमस्ति, कथमिव पश्चादपि समवायिनी भवेत् । न चापि पश्चात्कालभाविद्रव्यसमवायाविगुणरूपैव जातिः सर्वदावस्थितेति शक्यं वक्तुम्, द्रव्य
9