________________
पञ्जिकासमेतः ।
कर्मान्वयदरिद्रं च यदि हेतुः प्रकल्प्यते ।
तदा व्यक्तय एवास्याः किमितीष्टा न हेतवः ॥ ७५२ ॥ पाचकादिमतिर्न स्यात्तत्र चोपरतक्रिये ।
न सदासन्निधानं हि कर्मेष्टं जातिवत्परैः ॥ ७५३ ॥ अतीतानागतं कर्म निमित्तीकृत्य तेषु चेत् । पाचकादिषु धीशब्दों, तन्न हेतुरसत्त्वतः ॥ ७५४ ॥
नहि पाचकादिषु कर्मनिबन्धना बुद्धिरिति युक्तं वक्तुम् । तस्यापि कर्मणः प्रतिव्यक्तिवद्भेदाभ्युपगमात्, भिन्नेषु हि विनैकेनानुगामिनाऽन्वयी प्रत्ययो नोपपद्यत इति कृत्वा सामान्यं सर्वव्यक्त्यनुगतं परिकल्प्यते भवद्भिः । यदि चान्वयशून्यमपि कर्माभिन्नाभिधानप्रत्ययहेतुः स्यात्तदा को व्यक्तिषु प्रद्वेषो येन ताः परिहृत्य सामान्यं तद्धेतुत्वेन कल्प्यते । किंच यदि कर्मनिबन्धनः पाचकादिषु प्रत्ययः स्यात्तदा परत:क्रिये पाकमकुर्वति पाचक इति प्रत्ययो न स्यात् । नहि जातिवद्भवद्भिः सदा सन्नि - हितं कर्माभीष्टं, येनोपरतक्रियेऽपि प्रत्ययः स्यात् । नहि यो यन्निबन्धनः स तद्भावे भवितुमर्हति, अतिप्रसङ्गात्, एवं हि सर्वः सर्वनिबन्धनं स्यात् । नचाप्यतीतानागतं कर्म तत्प्रत्ययनिबन्धनं युक्तं, तस्यातीतादेरसत्त्वात्, असतश्च हेतुभावानुपपत्तेः ।। ७५० ॥ ७५१ ।। ७५२ ।। ७५३ ॥ ७५४ ॥
२४७
शङ्करस्वामी प्राह - पाचकाद्यनुवृत्तिप्रत्ययस्तत्कर्मजातिसंबद्धया क्रियया योगस्तस्माद्भवति, तेनोपरतक्रियेऽपि क्रियया ध्रुवनिमित्तस्योपलक्षणात्पाचकादिप्रत्यय इत्यव - सेयमिति । तदेतद्दर्शयति — क्रियेत्यादि ।
I
क्रियात्वजातिसम्बन्धक्रियायोगान्मतिर्यदि । नष्टक्रियेऽपि च तया ध्रुव हेतूपलक्षणात् ॥ ७५५ ॥
तयेति । क्रियया । ध्रुवनिमित्तं क्रियात्वजातिः ॥ ७५५ ।। न त्वित्यादिना प्रतिविधत्ते ।
न तु नष्टक्रिये तत्र लक्षितापि न विद्यते । गृह्यते या ध्रुवा जातिः खाधारविनिवृत्तितः ॥ ७५६ ॥ स्वस्या आधारः——क्रिया (त्व) जातेः सैव क्रिया । नहि जातेराश्रयग्रहणमन्तरेण केवलाया ग्रहणमवस्थितिर्वास्ति, अनाश्रितत्वप्रसङ्गात् ॥ ७५६ ॥