________________
२४६
तत्त्वसङ्ग्रहः।
रसादिप्रत्ययानामपि नानाविषयो न सिद्धयेत् । प्रत्ययभेदकृतत्वाद्विषयभेदव्यवस्थानस्वेति । तदप्ययुक्तम् । नहि सामान्यप्रत्ययो वस्तुस्खलक्षणविषयः परमार्थतो युक्तः । आविष्टामिलापेन प्रत्ययेन खलक्षणस्याविषयीकारणात् । किन्तु यतो यतस्तस्यैकस्यापि बस्तुनो व्यावृत्तिस्तनिबन्धनास्तत्र यथासङ्केताभ्यासं तद्वस्त्वनुभवद्वारा यतो विकल्पा वाचकाच विश्वकल्पा यदि प्रवर्तेरन्नसत्यपि सामान्ये तदा को विरोध इत्यतो व्यात्यभाव उच्यते ॥ ७४५ ॥ ७४६ ॥ यच्चोक्तं गवादिष्वनुवृत्तं चेत्यादि, तत्राह-तदनन्तरमित्यादि ।
तदनन्तरमुद्दिष्टमनेनैव निराकृतम् ।
सामान्यसाधनं तस्मिन्निष्टसिद्ध्यादयः समाः ॥ ७४७॥ अनेनैवेति समनन्तरोक्तहेतुदूषणेनैव । तत्रापि तुल्यदोषत्वात् । तथाहीष्टसिद्ध्यादयोऽत्रापि समानाः । आदिशब्देन साध्यशून्यता दृष्टान्तस्य हेतोरसिद्धिर्व्यभिचारश्चेत्यादि परिगृह्यते ॥ ७४७ ॥ प्रकारान्तरेणापि व्यभिचारमाह-पाचकादिष्वित्यादि।
पाचकादिषु च ज्ञानं विशिष्टमुपजायते। अभावेऽभाववुद्धिश्च विनैकेनानुगामिना ॥ ७४८॥ इच्छारचितरूपेषु नष्टाजातेषु वा ततः।
अनैकान्तिकता हेतोः सवैरेभिर्यथोदितैः ॥ ७४९॥ नहि तत्रैकमनुगामि निमित्तं पाचकत्वपाठकत्वादिकमस्ति, येन पाचकः पाठक इत्यनुवृत्तिप्रत्ययो भवेत् । तथा प्रागभावादिषु चतुर्वभावोऽभाव इति कथमनुवृत्तप्रत्ययो भवेत् , नत्रापि सामान्यमस्ति तस्य वस्त्वाश्रितत्वात् । इच्छारचितरूपेषु चन्द्रापीडादिषु नभस्सलोपकल्पितधवलगृहादिषु नष्टाजातेषु च महासम्मतशङ्खप्रभृतिषु बुद्धिर्विनैकेनानुगामिना कथं भवेत् । नहि तत्रापि सामान्यमस्ति, व्यक्त्याभितत्वात्तस्य ॥ ७४८॥ ७४९ ॥ न पाचकादीत्यादिना पाचकादिषु ज्ञानं समर्थयते ।
न पाचकादिबुद्धीनामस्ति किञ्चिनिबन्धनम् । कर्मास्ति चेत्प्रतिव्यक्ति ननु तद्भिद्यते तथा ॥ ७५० ॥ भिमेष्वन्वयिनोऽसखे न युक्ताऽन्वयिनी मतिः । इत्येकमिष्टं सामान्यं सर्वव्यत्यनुवृत्तिमत् ॥ ७५१ ॥