________________
२४५
पत्रिकासमेतः। अध्रौव्यविविकमिति । अनित्यत्वविविक्तं, नित्यमिति यावत् । कस्मान्न सिद्धयतीति ? क्रमोदयात् । गवाद्यमिधानप्रत्ययानामिति शेषः । यदा हि तथाविधसामान्यधर्महेतुकत्वमेषामभविष्यत्तदा क्रमेणामी नोदपत्स्यन्त, अविकलकारणत्वायुगपदेबोत्पधेरन् , युगपदुत्पद्यमानानेकपदार्थवत् । नहि परैरनुपकार्यस्य काचिदपेक्षाऽस्ति ॥ ७४३ ॥ सम्प्रति हेतोः सिद्धिमभ्युपगम्य व्यभिचारमाह-पदार्थशब्द इति ।
पदार्थशब्दः के हेतुमपरं षट्सपेक्षते।
अस्तीति प्रत्ययो यश्च सत्तादिष्वनुवर्तते ॥७४४ ॥ नहि पदार्थत्वं नाम षट्सु पदार्थेष्वपरमस्ति, येन पदार्थः पदार्थ इत्यनुगामी प्रत्ययो भवेत् । तथा सामान्यविशेषसमवायेषु न सत्तास्ति, येनास्तीति तेषु प्रत्ययः स्यात् , द्रव्यगुणकर्मखेव सत्तायाः स्थितत्वात् । द्रव्यादिषु तु सामान्यनिबन्धन एव व्यपदेशः परेषामभीष्ट इति न तेन व्यभिचारश्चोद्यते ॥ ७४४ ॥ - स्यादेतत्तत्रापि सत्तादिसदुपलम्भकप्रमाणविषयत्वं धर्मोऽस्ति, तेनान्यनिमित्तोऽयमत्रापि व्यपदेश इत्यव्यभिचार एवेत्याह-अन्यधर्मेत्यादि ।
अन्यधर्मनिमित्तश्चेत्तत्राप्यस्त्यस्तितामतिः। तदन्यधर्महेतुत्वेऽनिष्ठासक्तेरधर्मिता ॥ ७४५॥ व्यभिचारी ततो हेतुरमीभिरयमिष्यते ।
नच सर्वोपसंहाराद्याप्तिरस्य प्रसाधिता ॥ ७४६ ॥ अन्यधर्मनिमित्तत्वेऽप्यभ्युपगम्यमाने व्यभिचारदोषस्तदवस्थ एव, यस्मात्तत्राप्यस्मिन्धर्मेऽस्त्येवास्तितामतिः अस्ति सद्धर्म इति । तत्राप्यन्यधर्माभ्युपगमेऽनवस्थाप्रसङ्गः स्यात् । अन्येषामपि धर्मान्तराश्रयत्वाद्धर्मित्वप्रसङ्गश्च । ततश्च षडेव पदार्था धर्मिण इति षट्सङ्ख्यानियमो न स्यात् । अथानवस्थाभयाद्धर्मान्तरं नाश्रीयते तदा. ऽमीमिः पदार्थेषु सत्तादौ धर्मे वा प्रवृत्तैः प्रत्ययैर्व्यभिचारिता हेतोः । माभूद्वाऽस्य साधारणानैकान्तिकता, संदिग्धव्यतिरेकिता तु केन परिहियत इत्येतदाह-नच सर्वोपसंहारादित्यादि । सर्वस्मिन्धर्मिणि हेतोः साध्येन व्याप्तिप्रदर्शनं सर्वोपसंहारः । स्यादेतद्व्याप्तिरत्र युक्कैवेति, निमिचान्तराभावे हि तद्वस्तुप्रत्ययवैलक्षण्यं कथमुपपद्येत, नोकविषयाणां बहूनामपि प्रत्ययानां वैलक्षण्यमस्ति, यदि स्यात्तदा रूप