________________
२४४
तवसङ्ग्रहः ।
इत्येवमनुवृत्तिप्रत्ययो न स्यात्, ततश्च हेतोरसिद्धत्वान्नानुमानबाधेति । तदन्नाह -
सामान्यस्यापीत्यादि ।
सामान्यस्यापि नीलादिरूपत्वे गुणतोऽस्य कः । भेदो नानुगतचैको नीलादिरुपलक्ष्यते ॥ ७४० ॥ भासमानोऽपि वेदेष न विवेकेन लक्ष्यते । तत्कथं धीध्वनी व्यक्तौ वर्त्तते तद्बलेन तौ ॥ ७४१ ॥ निश्वयात्मक एवायं सामान्यप्रत्ययः परैः । इष्टाग्रहणे प्राप्ते युक्तं नानुपलक्षणम् ॥ ७४२ ॥
एवं सति गुणानीलादेर्नीलत्वादिसामान्यस्य विशेषो न प्राप्नोति, आकाराभेदात् । स्यान्मतं गुणो हि नीलादिरनुगतो न भवति । सामान्यं तु मिन्नदेशकालव्यक्त्यनुगामीत्यत आकारभेदोऽस्तीत्याह - नानुगतश्चैक इत्यादि । नहि नीलादिगुणव्यतिरिक्तमपरं नीलत्वादि नीलाद्याकारानुगतमनुगामि प्रतिभासमानमालक्ष्यते । अध्यक्षत एकस्यैव नीलादेरसाधारणस्य प्रतिभासनात् । नापि विंकल्पचेतसि नीलत्वादि द्वितीयं प्रतिभासते, यथादृष्टस्यैव तेनाध्यवसायात् । स्यादेतद्यथा भवतां क्षणिकत्वं भासमानमपि नोपलक्ष्यते विवेकेन मन्दैस्तथेदमपि सामान्यमिति तदप्ययुक्तम् । एवं हि तद्दर्शनबलाद्भिन्नास्वपि व्यक्तिष्वभिन्नौ धीध्वनी भवत इति यदेतद्वर्णितं तन्नोपपद्यते, नहि विशेषणानुपलक्षणे विशेष्ये धीरुपजायते, यथा दण्डानुपलक्षणे दण्डीति प्रत्ययो न भवति तद्वत्रापि स्यात् । तथाहि स्वतः शब्दप्रत्ययगोचरातिवृत्ता भेदा भवद्भिरुपवर्ण्यन्ते । तांश्च भेदान्स्वतो बुद्धिशब्दविषयव्यतिवृत्तशरीरान्सामान्यदर्शनबलेन प्रतियन्प्रतिपत्ता कथं तस्यैवानुपलक्षको नाम । अपिच यस्या - विकल्पकमेव प्रत्यक्षं तस्यैतद्युक्तं वक्तुं प्रतिभासमानमपि नोपलक्ष्यत इति, निश्चयप्रत्ययव्यापारत्वादुपलक्षणस्य, यस्य तु भवतः सर्वमेव सविकल्पकं प्रत्यक्षमिति पक्षस्तस्यायुक्तमनुपलक्षणमप्रहणप्रसङ्गात् । इयमेव हि निश्चयानां स्वार्थप्रतिपत्तिर्यत्तन्निचयनं तचेन्न निश्चिन्वन्ति न गृह्णन्तीत्येव प्राप्तम् ॥ ७४० ॥ ७४१ ॥ ७४२ ॥
अभ्युपेत्यापि नीलादिव्यतिरिक्तार्थान्तरसिद्धिं नेष्टसिद्धिर्भवतामभिमतसाध्यार्थस्यानुमानवाधितत्वात्तेन व्यात्यसिद्धेरिति दर्शयन्नाह - सिद्धेऽपीत्यादि ।
सिद्धेऽप्यन्यनिमित्तत्वे न सामान्यं प्रसिद्ध्यति । अनुगाम्येकमधौव्यविविक्तं च क्रमोदयात् ॥ ७४३ ॥