________________
पविकासमेतः।
२४३ अभावप्रत्ययस्यापि क्रियागुणव्यपदेशाभाव एव हेतुत्वेन भवद्भिर्वर्ण्यते । तदप्ययुक्तमिति । क्रियाद्यभावस्य हेतुत्वोपवर्णनम् । तथाहि कार्योत्पादनसामर्थ्यमेव हेतुत्वमुच्यते, तच्च सामर्थ्य वस्त्वाधारमेव, तल्लक्षणत्वाद्वस्तुनः । यदि चाभावोऽपि तथाविधसामर्थ्याध्यासितो भवेत्तदा कथमिव वस्तुत्वं नासादयेत्, एतावन्मात्रनिबन्धनत्वाद्वस्तुनः । ततश्चाभावरूपतामेव विजह्यात् । वस्तुस्वभावप्रच्युतिरूपत्वादभावस्य । अपिच-यदि क्रियागुणव्यपदेशाभावोऽभावप्रत्ययहेतुः स्यात्तदा सत्तादिप्वप्यभावप्रत्ययः प्राप्तस्तत्रापि शशविषाणादिवत्क्रियागुणव्यपदेशाभावाविशेषात् ॥ ७३६ ॥ ७३७॥ हेतुश्वासिद्ध इति दर्शयन्नाह-चैलक्षण्यमिति ।
वैलक्षण्यमसिद्धं च पिण्डाकृत्यादिवुद्धितः ।
तज्ज्ञानानामसिद्धोऽपि हेतुरेष भवत्यतः ॥ ७३८ ॥ नहि गवादिप्रत्ययानां पिण्डादिव्यतिरिक्तमर्थान्तरमध्यवसेयमस्ति, येन तत्प्रत्ययान्यवत्मेषां भवेत् ॥ ७३८॥ प्रतिज्ञायाश्चानुमानबाधेति दर्शयन्नाह–अन्वयीयादि ।
अन्वयी प्रत्ययो यमाच्छन्दव्यत्यवभासवान् ।
वर्णाकृत्यक्षराकारशून्या जातिस्तु वर्ण्यते ॥ ७३९॥ एतदुक्तं भवति–अनुगामिप्रत्ययानां पिण्डादिव्यतिरिक्तं निमित्चमालम्बनभूत. मेव भवद्भिः सिसाधयिषितम् , तच्चायुक्तम् , तस्याप्रतिभासनात्; तद्विलक्षणवर्णाकृत्यादिप्रतिभासनाच्च । तथाहि भवद्भिर्वर्णाकृत्यक्षराकारशून्यमेव वर्ण्यते गोत्वादिसामान्यम् , विज्ञानं च वर्णादिप्रतिभासानुगतमनुभूयते, तत्कथमस्य वर्णादिशून्य. मालम्बनं भवेत् , न ह्यन्याकारस्य विज्ञानस्यान्यदालम्बनं युक्तमतिप्रसङ्गात् । प्र.
योगः-यो यद्विलक्षणार्थप्रतिभासः प्रत्ययः स तद्वाहको न भवति, तद्यथा शब्द| ज्ञानं न रूपग्राहक, जातिविलक्षणवर्णादिप्रतिभासश्चान्वयी प्रत्यय इति व्यापकविरुद्धोपलब्धेः । शब्दव्यत्यवभासवानिति । शब्दो-गौरित्यादिव्यपदेशः, व्यक्तिः -वर्णसंस्थानात्मिका, तयोरवभासः सोऽस्यास्तीति तद्वान् । अक्षराणि-कारौकारविसर्जनीयादीनि ॥ ७३९ ॥
शङ्करस्वामी वाह-सामान्यमपि नीलत्वादि नीलाद्याकारमेव, अन्यथा हि नील