________________
२४२
तत्त्वसङ्कहः।
तस्य पक्षाबहिर्भावे साध्यशून्यं निदर्शनम् । नैवं तद्धेतवः साक्षाद्वाह्यवत्साङ्कुशादयः ॥ ७३३ ॥ नाभिधानविकल्पानां वृत्तिरस्ति खलक्षणे ।
सर्व वाग्गोचरातीतमूर्तिर्येन खलक्षणम् ॥ ७३४ ॥ अथैनं सङ्केतमनस्कार पक्ष एवान्तर्भाव्य तद्व्यतिरिक्तनित्यैकानुगामिसामान्याख्यसंसर्गिनिबन्धनत्वमेषां साध्यते तदा दृष्टान्तस्य साध्यविकलता, न ह्येवंभूतेन कचिदन्वयः सिद्धः । ये चामी वत्साङ्कुशादयः सवत्साद्यभिधानप्रज्ञानहेतुत्वेन वर्णितास्तेऽपि तद्धेतुत्वेन न सिद्धाः, न ह्येषामासादितखलक्षणभावानां साक्षादमिधानप्रज्ञानहेतुत्वमस्ति, सर्ववाग्विकल्पगोचरातीतरूपत्वात्स्खलक्षणस्येत्यतः साध्यविकलता दृष्टान्तस्य । पारम्पर्येण तु हेतुत्वकल्पनायामतिप्रसङ्गः स्यात् , सर्वस्यैव सर्वत्र पारम्पर्येणोपयोगस्य विद्यमानत्वात् ॥ ७३३ ।। ७३४ ॥ __ यद्येवं कथं तर्हि लोकोऽङ्कुशादि बाह्यमेव तद्धेतुत्वेनाध्यवस्थतीत्याह-अन्तर्मात्रेत्यादि ।
अन्तर्मात्रासमारूढं सांवृतं ववलम्ब्य ते।
बहीरूपाध्यवसितं प्रवर्तन्तेऽङ्कुशादिकम् ॥ ७३५ ॥ यत्तावदङ्कुशादिप्रज्ञत्युपादानं स्खलक्षणं न तद्विकल्पैः स्पृश्यत इत्युक्तम् । यत्तु सांवृतं तत्कल्पनाशिल्पिनिर्मितात्मरूपतयाऽन्तर्मात्रारूढमेव न बाह्य, दृश्यविकल्पयोस्तु विवेकेनानभिज्ञतया जनो बाह्यमिव तमाकारं मन्यमानो बाह्यमेव वस्त्वमिधावतीति नातो बाह्यरूपतासिद्धिरङ्कुशादीनाम् । अङ्कुशादिकमित्यवलम्ब्येत्यनेन पूर्वकेण संबन्धनीयम् । अन्तर्मात्रासमारूढं बहीरूपतयाऽध्यवसितं सांवृतमङ्कुशादिकमालम्ब्य बाह्ये प्रवर्तत इत्यर्थः । अन्तर्मात्रा-बुद्धिः ॥ ७३५ ॥
यञ्च गवादिविषयत्वे सतीति विशेषणं तदप्ययुक्तमेव, व्यवच्छेद्याभावादिति दशयबाह-क्रियेत्यादि ।
क्रियागुणव्यपदेशाभावो हेतुश्च वर्ण्यते। अभावप्रत्ययस्येति विशेषणमनर्थकम् ॥ ७३६ ॥ तदप्ययुक्तं हेतुखे वस्तुता शक्तितोऽपि च । अभावप्रत्ययः प्राप्तः सत्तादिष्वविशेषतः ॥ ७३७॥ .