________________
पलिकासमेतः।
२४१ इतश्च स्मार्त्तत्वात्तदन्यस्मृतिवत्प्रत्यक्षत्वमयुक्तं सदादिप्रत्ययस्येति दर्शयन्नाह-अजल्पेत्यादि।
अजल्पाकारमेवादौ विज्ञानं तु प्रजायते ।
ततस्तु समयाभोगस्तस्मात्स्मात्तै ततोऽपि ते ॥७३०॥ स्खलक्षणे सङ्केतस्याकरणादृष्ट्वा च विकल्पनात्प्रथमतरं वस्तुस्खलक्षणविषयतयाऽमिलापसंसर्गविवेकि विज्ञानमक्षाश्रितमुपजायते । ततः पश्चात्तस्मिन्नेव परिदृष्टे वस्तुनि समयाभोगस्तदनन्तरं यथासमयं परिदृष्टार्थविषयास्तदव्य(ध्य ?)वसायितया सदादिप्रत्ययास्तमेवार्थ परिदृष्टममिलपन्तः समुत्पद्यमानाः कथमिव स्मार्ततां नासादयेयुः । ततोऽपीति । यथा परिदृष्टाव्य(ध्य ?)वसायात् । त इति । सदादिप्रत्ययाः ॥ ७३०॥ कुतः पुनरयमुत्पत्तिक्रमो विज्ञानानामालक्षित इत्याह-अन्यत्रेत्यादि ।
अन्यत्र गतचित्तस्य वस्तुमात्रोपलम्भनम् । ।
सर्वोपाधिविवेकेन तत एव प्रवर्त्तते ॥ ७३१॥ यतस्ते सदादिप्रत्यया अमुना क्रमेणोपजायन्ते, तत एवान्यत्र-विषयान्तरे गतचित्तस्य-व्यासक्तमनसः पुरोऽवस्थितं वस्तु पश्यतः संमुखीभूतवस्तुसङ्केतमनस्काराद्यप्रवृत्तेः प्रथमतरं सर्वोपाधिविविक्तवस्तुमात्रदर्शनं प्रवर्त्तते । अन्यथा हि यदि सर्वमेव सामिजल्पं विज्ञानं स्यात्तदा पुरोऽवस्थितं वस्तु सर्वोपाधिशून्यमन्यत्र गतमनाः कथमीक्षेत । न ह्येकस्मिन्काले युगपदमिलापद्वयं संवेद्यते । तदेवं साक्षादक्षगतान्वयव्यतिरेकानुविधायित्वमसिद्धम् ॥ ७३१ ॥ तत्र यदुक्तं गवादीत्यादि तत्राह-हेतावित्यादि ।
हेतावाद्येऽपि वैफल्यं समयाभोगभाविता।
तेषामिष्टैव संसर्गी सोन्वयव्यतिरेकवान् ॥ ७३२॥ यदि सामान्येनानुरूपसंसर्गिनिमित्तान्तरमात्रनिबन्धनत्वमेषां प्रसाध्यते तदा सिद्धसाध्यता, यतो गवादिसङ्केताभोग एव गवादिप्रत्ययव्यपदेशानामनुरूपसंबन्धी । तथाहि तस्मिन्सति भवन्ति विजातीयमनस्कारे, (असति) च न भवन्ति । अतः स एषान्वयव्यतिरेकवान्हेतुरेषां सिद्धः, तद्गतान्वयव्यतिरेकस्यैवानुविधानात् , अतो वैफल्यं हेतुप्रयोगप्रयासस्य ॥ ७३२ ॥
३१