________________
तत्त्वसङ्ग्रहः ।
विधव्याधिव्यावर्त्तनसामर्थ्याध्यासिता भवन्त्यन्तरेणाप्यनुगामिनम्, नहि तत्र सामान्यमेव तथाविधामर्थक्रियां संपादयतीति युक्तं वक्तुम् । यतस्तेषु विविधार्थक्रियासंपादनयोग्यं न सामान्यमस्ति । यदि स्यात्तदा येयं कचित्कदाचित्कासांचिद्धात्र्यादीनां चिरक्षिप्ररोगाद्युपशमनसामर्थ्योपलब्धिः सा न स्यात्, सामान्यस्यैकरूपत्वात् । नच क्षेत्रक्षीरावसेकादिसंस्कारविशेषवशादासादितातिशयं सामान्यमेवैतामर्थक्रियां विचित्रां सम्पादयतीति युक्तम् । तस्य नित्यतया परैरनाधेयविकारस्य क्षेत्रादिभेदतोSपि नातिशय: कश्चिदेकरूपत्वात् । धात्र्यादीनां त्वनित्यानां सोऽतिशयः क्षेत्रादिभेदतो मिद्यत इत्यतस्त एव रोगाद्युपशमनसामर्थ्योपेताः । ततश्च तद्वदेवान्येऽपि घटादयो भावाः स्वहेतुप्रत्ययेभ्यस्तथोत्पत्तेः प्रकृत्यैवैकाकारप्रत्यवमर्शादिहेतवो भविष्यन्तीत्यदोषः । तुल्यप्रत्यवमर्शादेरित्यादिशब्देन सलिलसंधारणाद्यर्थक्रियासामर्थ्यपरिग्रहः ।। ७२३ ।। ७२४ ।। ७२५ ।। ७२६ ॥
कथं पुनः सङ्केताभोगादिव्यवहितत्वमेषां सिध्यतीत्याह — कार्येत्यादि । कार्यमात्रोपयोगित्वविवक्षायां च सच्छ्रुतेः ।
२४०
समयः क्रियते तेषु यद्वान्यस्या यथारुचि ॥ ७२७ ॥ वाहदोहादिरूपेण कार्य भेदोपयोगिनि । गवादिश्रुतिसङ्केतः क्रियते व्यवहर्तृभिः ॥ ७२८ ॥ तत्सङ्केतमनस्कारात्सदादिप्रत्यया इमे ।
जायमानास्तु लक्ष्यन्ते नाक्षव्यापृत्यनन्तरम् ॥ ७२९ ॥ नह्यगृहीतसमयानां सदादिप्रत्ययप्रसूतिरन्यथा सङ्केतकरणवैयर्थ्यं स्यात् । तस्माद्यस्मिन्नेकाकारपरामर्शव्यवस्थितार्थक्रियासामर्थ्य मात्रप्रतिपादितमेवाभेदं परामृश्य सदिति श्रुतिं विनिवेशयन्ति समयकृतः ( तस्मिन्सदादिप्रत्ययः । ) यद्वाऽन्यस्या इति । वस्त्वित्यस्याः श्रुतेः । एवं गवादिविशेषश्रुतेरपि वाहादिसामर्थ्यविशेषजिज्ञासायां समयः क्रियत इति योज्यम् । ततश्च सङ्केतोत्तरकालं व्यवहारकाले गवादिषु दृष्टेष्वपि पूर्वकृतसङ्केताभोगस्ततस्तन्नामस्मरणं ततः पश्चात्सदादिप्रत्ययोदय इति स्फुटतरमालक्ष्यत एव । कचिदत्यभ्यासत आशुतरोत्पादादमीषां क्रमो नावधार्यते । मन्दाभ्यासास्तु स्फुटतरमवधारयन्त्येव तदित्युपसंहरति । ततस्मातदेवं समयाभोगादिव्यवहितत्वात्साक्षादनुत्पत्तेः प्रत्यक्षत्वमेषामसिद्धम्, न चापि पारम्पर्येणोत्पद्यमानस्य प्रत्यक्षत्वं न्याय्यमतिप्रसङ्गादिति भावः ॥ ७२७ ।। ७२८ ।। ७२९ ॥