________________
२३९
पलिकासमेतः। प्रत्ययैयमिचारशल्या तत्परिहारार्थ गवादिविषयत्वे सतीति विशेषणम् । पिण्डादिखल्पामिधानप्रज्ञानव्यतिरिक्त अमिधानप्रज्ञाने येषां तद्भावस्तत्त्वमिति विप्रहः । वै. धर्येण पिण्डाविखरूपामिधानप्रज्ञानविशेषा इति । तत्र हि पिण्डादिव्यतिरिक्तनिमिमान्तरनिबन्धनत्वाभावे हेतोरपि यथोक्तस्याभावात् । उद्योतकरस्त्वाह-वादिष्वनुवृतिप्रत्ययः पिण्डादिन्यतिरिक्तानिमित्ताद्भवति, विशेषकत्वानीलादिप्रत्ययवत् । तथा गोतोऽर्थान्तरं गोत्वं, मिन्नप्रत्ययविषयत्वाद्रूपस्पर्शादिवत् , तस्येति च व्यपदेशविषयत्वाद्यथा चैत्रस्याश्व इति चैत्राद्व्यतिरेकेण व्यपदिश्यमान इति । तदेतदर्शयति गवादिष्वित्यादि । सुबोधम् ॥ ७१६ ॥ ७१७ ॥ ७१८ ॥ ७१९ ॥ ७२० ॥ असारमित्यादिना प्रतिविधत्ते।
असारं तदिदं कार्य प्रक्रियामात्रवर्णनम् । न तु तज्ज्ञापकं किश्चित्प्रमाणमिह विद्यते ॥ ७२१ ॥ अक्षव्यापारसद्भावान्नानन्तरभाविनः ।
सदादिप्रत्ययास्सिडाः सङ्केताभोगतस्तु ते ॥ ७२२॥ बहुक्तमक्षव्यापारसद्भावात्सदादिप्रत्ययानामक्षाश्रितत्वमिति । तत्र यदि साक्षादक्षव्यापारान्तरभावित्वादिति हेत्वर्थोऽभिप्रेतस्तदा हेतुरसिद्धः, सविकल्पत्वेन सङ्केताभोगस्मरणादिव्यवहितत्वात् ॥ ७२१ ॥ ७२२ ॥
न चैतच्छक्यं वक्तुम् , एकमनुगामिनमन्तरेण कथं परस्परव्यावृत्तात्मानो भावाः पारम्पर्येणाप्यमिनाकारप्रत्ययनिबन्धनं युज्यन्त इत्याशङ्कयाह-यथेत्यादि ।
पथा धात्र्यभयादीनां नानारोगनिवर्तने । प्रत्येकं सह वा शक्तिर्नानात्वेऽप्युपलभ्यते ॥ ७२३ ॥ न तेषु विद्यते किंचित्सामान्यं तत्र शक्तिमत् । चिरक्षिप्रादिभेदेन रोगशान्त्युपलम्भतः ॥ ७२४ ॥ सामान्येऽतिशयः कबिन्नहि क्षेत्रादिभेदतः। एकरूपतया नित्यं धात्र्यादेस्तु स विद्यते ॥ ७२५ ॥ एषमत्यन्तभेदेऽपि केचिनियतशक्तितः।
तुल्यप्रत्यवमर्शादेहेतुत्वं यान्ति नापरे ॥ ७२६ ॥ यथा मामलल्यादयः परस्परमत्यन्तविमिन्नमूयोऽपि प्रत्येकं समुदिता बा नाना
.
.
.