________________
२५०
वस्वस -निमिचान्तराद्भाव उत्पादः सोऽस्यास्तीति कृत्वा । प्रयोग:-यद्वस्त्वाकारविलक्षणो यः स तस्यतिरिकनिमित्तान्तरभावी, यथा वनचर्मकम्बलेषु रतादिप्रत्ययः, क्या चायं द्रव्यादिषु सदादिप्रत्यय इति स्वभावहेतुं मन्यते परः ॥ ७१५ ॥
एनमेव प्रमाणार्थ गवादीत्यादिना भाविविक्तादिरचितप्रमाणोपन्यासेन द. शेयति।
गवादिशब्दप्रज्ञानविशेषा गोगजादिषु। समयाकृतिपिण्डादिव्यतिरिक्तार्थहेतवः ॥ ७१६ ॥ गवादिविषयत्वे हि सति तच्छन्दबुद्धितः। अन्यत्वात्तथैष्वेव सवत्साङ्कुशधीध्वनी ॥ ७१७॥ शशशृङ्गादिविज्ञानैर्व्यभिचाराद्विशेषणम् । तस्वरूपाभिधानं च वैधम्र्येण निदर्शनम् ॥ ७१८॥ गवादिष्वनुवृत्तं च विज्ञानं पिण्डतोऽन्यतः। विशेषकत्वानीलादिविज्ञानमिव जायते ॥७१९ ॥ गोतत्त्वार्थान्तरं गोवं भिन्नधीविषयवतः।
रूपस्पर्शादिवत्तस्येत्युक्तेश्चैव तुरङ्गवत् ॥ ७२० ॥ तत्र भाविविक्तः प्राह-वाश्वमहिषवराहमातङ्गादिषु गवाधमिधानप्रज्ञानविशेषाः समयाकृतिपिण्डादिव्यतिरिक्तखरूपाऽनुरूपसंसर्गिनिमित्तान्तरनिबन्धना इत्यवघोषणा । गवादिविषयत्वे सति पिण्डादिस्वरूपामिधानप्रज्ञानव्यतिरिक्तामिधानज्ञानत्वात् , तेष्वेव गवादिषु सवत्सा गौर्भाराकान्तो महिषः सशल्यो वराहः साशो मातङ्ग इत्यायमिधानप्रज्ञानविशेषवत् । वैधर्मेण पिण्डादिवरूपामिधानप्रज्ञानविशेषाः । यानि च वानि निमित्तान्तराणि तानि गोत्वादीनीति सिद्धम् । तत्रामिधानं -शब्दः, प्रज्ञानं-प्रत्ययो ज्ञानमित्यर्थः । अमिधानप्रज्ञानान्येव विशेषा इति विशेषणसमासः । समय:-सङ्केतः, आकृति:-संस्थानं, पिण्डो-द्रव्यम् , आदिशब्देन रूपादिपरिप्रहः, एभ्यो व्यतिरिक्त खरूपं येषां स्वामिधानप्रत्ययं प्रत्यनुरूपाणामुपाषित्वात्संसर्गिणां निमित्तान्तराणां तानि निबन्धनं येषामिति विग्रहः । अथवा समयादिव्यतिरितानि च तानि सदादिप्रत्ययामिधानं प्रतिवरूपानुरूपसंसगाणि वेति विग्रहः कार्यः । शेषं पूर्ववत् । अवघोषणेति । प्रतिक्षा । शशविगणादि