________________
पश्चिकालमेतः ।
I
त्वादित्यर्थः । के पुनस्त इत्याह- नित्येत्यादि । तथाचोक्तम् — नित्यद्रव्यवृत्तयोऽन्त्या विशेषा इति । नित्यद्रव्यवृत्तय इति । परमाण्वाकाशकालदिगात्ममनःसु वृत्तेः । परमाणूनां जगद्विनाशारम्भकोटिभूतत्वात्, मुक्तात्मनां मुक्तमनसां च संसारपर्यन्तरूपत्वादन्तत्वम्, अतस्तेषु भवा अन्त्या इत्युच्यन्ते । तेषु स्फुटतरमालक्ष्यमाणत्वात् । वृत्तिस्तु पुनरेषां सर्वस्मिन्नेव परमाण्वादौ नित्ये द्रव्ये । अत एव नित्यद्रव्यवृत्तयोऽन्त्या इत्युभयोरुपादानम् । तत्र परस्परमत्यन्तव्यावृत्तबुद्धिहेतुत्वात्स्वाश्रयमन्यतो विशेषयन्तीति विशेषा उच्यन्ते ।। ७१२ ।।
कुतः पुनरमी सिद्धा इत्याह-यद्वलादित्यादि ।
यद्बलात्परमाण्वादौ जायन्ते योगिनां धियः । विलक्षणोऽयमेतस्मादिति प्रत्येकमाश्रिताः ॥ ७१३ ॥
११०
यथा ह्यस्मदादीनां गवादिष्वाकृतिगुणक्रियावयवसंयोगनिमित्तोऽश्वादिबुद्धिव्यावृत्तः प्रत्ययो दृष्टः, तद्यथा - गौः शुकुः शीघ्रगतिः पीनककुदो महाघण्ट इति यथाक्रमम्, तथाऽस्मद्विशिष्टानां योगिनां नित्येषु तुल्याकृतिगुणक्रियेषु परमाणुषु सुकात्ममनःसु चान्यनिमित्तासंभवाद्यद्बलात्प्रत्येकं विलक्षणोऽयमिति प्रत्ययव्यावृत्तिर्देशकालविप्रकर्षदृष्टे च स एवायमिति प्रत्यभिज्ञानं यतो भवति, ते योगिनां विशेपप्रत्ययोनीतसत्त्वा अन्त्या विशेषाः सिद्धाः । ते च यथास्वं प्रत्येकमाश्रयमाश्रिताः योगिनां प्रत्यक्षत एव सिद्धाः ॥ ७१३ ॥
अथ जातयः कथं सिद्धा इत्याह- प्रत्यक्षत इत्यादि ।
प्रत्यक्षतः प्रसिद्धास्तु सत्त्वगोत्वादि जातयः । अक्षव्यापारसद्भावे सदादिप्रत्ययोदयात् ॥ ७१४ ॥ यद्गतान्वयव्यतिरेकानुविधायि यद्भवति तत्ततो भवतीति व्यवस्थाप्यते । द्रव्यादिषु च सदादिप्रत्ययप्रसूतिरक्षगतान्वयव्यतिरेकावनुविदधती किमितीन्द्रियजन्यताव्यपदेशं नाभ्रुवीत, तदन्येन्द्रियज्ञानवत्, अन्यथाऽतिप्रसङ्गः स्यात् ॥ ७१४ ॥ अनुमानतोऽपि सत्त्वमासां प्रतिपादयन्नाह - अनुमानेत्यादि ।
अनुमानबलेनापि सत्त्वमासां प्रतीयते ।
विशेषप्रत्ययो येन निमित्तान्तरभाविकः ॥ ७१५ ।। - विशेषप्रत्यय इति । द्रव्यादिषस्तुविलक्षणाकारः प्रत्ययः । निमित्तान्तरभाविकः