________________
मारिमितादिना-सामान्यविशेषदूषणमारमते ।
द्रव्यादिषु निषिदेषु जातयोपि निराकृताः।
पदार्यत्रयवृत्ता हि सर्वास्ताः परिकल्पिताः ॥७०८ ॥ जातय इति । सामान्यानि । ताश्च द्रव्यगुणकर्मात्मकपदार्थत्रयाश्रितत्वात्तमिराकरणादेवापास्ताः । नह्माश्रयमन्तरेणाश्रितानां कचिदवस्थितिरस्ति, अनाभितत्वप्रस. मात् । जातिग्रहणमुपलक्षणम्, विशेषा अप्यन्त्यद्रव्यवृत्तित्वादाश्रिता एवेष्टाः, अव. स्तेऽप्याश्रयनिराकरणादेवापास्ताः॥७०८॥
तथाऽपि पुनर्विशेषेण दूषणं वक्तुकामोऽनितिस्वरूपस्याशक्यदूषणत्वात्सामान्यविशेषयोस्तावत्स्वरूपं दर्शयबाह-तत्रेत्यादि ।
तत्रेयं द्विविधा जातिः परैरभ्युपगम्यते। सामान्यमेव सत्ताख्यं समस्तेष्वनुवृत्तितः ॥ ७०९ ॥ द्रव्यत्वादि तु सामान्यं सद्विशेषोऽभिधीयते। खाश्रयेष्वनुवृत्तस्य चेतसो हेतुभावतः ॥७१०॥ विजातिभ्यश्च सर्वेभ्यः खाश्रयस्य विशेषणात् ।
व्यावृत्तिबुद्धिहेतुत्वं तेषामेव ततः स्थितम् ॥ ७११ ॥ तत्र सामान्यं द्विविधं परमपरं च, परं सत्ताख्यं, तच्च समस्तेषु त्रिषु द्रव्यगुणकर्मस्खनुवृत्तिप्रत्ययस्यैव कारणत्वात्सामान्यमेव न विशेषः । अपरं तु द्रव्यत्वकर्मत्वादिलक्षणं, तच्च स्वाश्रयेषु द्रव्यादिष्वनुवृत्तिप्रत्ययहेतुत्वात्सामान्यमित्युच्यते, स्वाअयस्य च विजातीयेभ्यो व्यावृत्तिप्रत्ययहेतुतया विशेषणात्सामान्यमपि सद्विशेष इत्यभिधीयते । तथाहि-गुणादिष्वद्रव्यमगुण इत्यादिका येयं व्यावृत्तबुद्धिरुदयमासादयति, तां प्रति हेतुत्वमेषामेव गुणत्वद्रव्यत्वादीनां व्यवस्थितं नान्यस्य, न भद्रम्यत्वादिकमपरमस्ति । अपेक्षाभेदाचकस्य सामान्यविशेषभावो न विरुध्यत एवेति भावः ।। ७०९ ॥ ७१० ॥ ७११ ॥ परेषां विशेषाणां लक्षणमाह-विशेषा एवेत्यादि ।
विशेषा एव केषितु व्यावृत्तेरेव हेतवः।
नित्यद्रव्यस्थिता येऽन्त्या विशेषा इति वर्णिताः ॥७१२॥ केषिविशेषा एवेष्यन्ते, न सामान्यानि । व्यारेव-व्यावृत्तिप्रत्ययस्यैव हेतु