________________
पविकासमेतः। यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते तत्प्रेक्षावतामसयवहारमवतरति, यथा क. मिश्चित्तदेशे पटोऽनुपलभ्यमानः, नोपलभ्यते च रूपादिवस्तुव्यतिरेकेण कर्मेति खमावानुपलब्धिः । नहि रूपादेतथा देशान्तरावष्टम्भेनोत्पद्यमानस्य व्यतिरेकेण कचिदिन्द्रियज्ञाने प्रतिभासमानमालक्ष्यते कर्म । या चेयमुत्क्षेपणमवक्षेपणमिति जल्पानुषक्षिणी धीरुपजायते, सा सामिजल्पत्वान्न प्रत्यक्षं, नचाप्येषा कर्मपदार्थानुभवभाविनी युक्ता, रूपादेरेव तथातथोत्पद्यमानस्य दर्शनात्, यथासङ्केतं तेष्वेवाव्यवसायेन वृत्तेः । एतबानन्तरमेव प्रतिपादितं "नित्यानित्ययोर्गत्याद्यभावा"विति । अतोऽसि. दमेतयदुक्तं प्रत्यक्षत एव कर्म सिद्धमिति ॥ ७०५ ॥ यथोक्तमेवार्थमुपसंहरबाह-अस्थिरे वेत्यादि ।
अस्थिरे वा स्थिरे वैवं गत्यादीनामसम्भवः ।
प्राक्तनापरदेशाभ्यां विभागप्रात्ययोगतः ॥७०६ ॥ एवमिति-अनन्तरोक्ताभ्यां प्रत्यक्षानुमानाभ्यां निराकृतत्वात् । विभागप्रास्ययोगत इति । प्राक्तनेन विभागायोगात् , अपरदेशेन प्राप्त्ययोगादिति यथाक्रम सम्बन्धः ॥ ७०६ ॥ यद्येवं कथं तर्हि गतिव्यवहारो लोके भवतीत्याह-देशान्तरेत्यादि ।
देशान्तरोपलब्धस्तु नैरन्तर्येण जन्मनः । समानापरवस्तूनां गतिभ्रान्तिः प्रदीपवत् ॥ ७०७ ॥
इति कर्मपदार्थपरीक्षा। समानापरवस्तूनामिति । समानानि च तान्यपराणि चेति समस्य तानि पक. स्तूनि चेति विप्रहः कार्यः । तेषां समानापरवस्तूनां यनैरन्तर्येण खोपादानकारणदेशपरिहारेण जन्म-सद्भावः, तस्य जन्मन उपलब्धेः कारणात्स एवायं गच्छतीति, यथा प्रदीपस्य केनचिन्नीयमानस्य देशान्तरं गच्छतीति बुद्धिहेतुत्वं भवति । नहि प्रदीपः स एव देशान्तरमाक्रामति । तस्य षट्क्षणस्थायित्वेनामिमतत्वात् । भावस्खभाव एव हि पूर्वापरकोटिशून्यो जन्मेत्यभिधीयते । तेन तस्योपलब्धियुज्यत एव । अथवा जन्मन इति पञ्चम्यन्तमेतत् । नैरन्तर्येणोत्पादात्समानापरवस्तूनां दे. शान्तरोपलन्धेरिति सम्बन्धः ॥७०७ ॥
इति कर्मपदार्थपरीक्षा।