SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ २३४ तत्त्वसङ्ग्रहः । न कदाचिदपि निश्चलमवतिष्ठेरम्, सर्बदा गनादिरूपत्वात् । ततश्चास्य देवदत्तादुर्गत्यादिमतो गत्याद्यसत्त्वेऽपि — निश्चलावस्थायामपि, ते गमनादयः प्राप्नुवन्ति । ग त्याद्युत्पत्तिकाल इवात्यक्तपूर्वरूपत्वात् ॥ ६९९ ॥ ७०० ।। " अथागनादिरूपं तत्प्रकृत्याऽगमनादयः । " सदा स्युः क्षणमप्येकं नैव प्रस्पन्दवद्भवेत् ॥ ७०१ ॥ यस्माद्गत्यादिभावेऽपि निश्चलात्मकमेव तत् । अत्यक्तपूर्वरूपत्वान्निश्वलात्मककालवत् ॥ ७०२ ॥ अथैतद्दोषभयाद्गनादिरूपत्वमस्याङ्गीक्रियते । तथासत्यगमनादयः सर्वदा स्युरेकरूपत्वादाकाशवत् । आदिशब्दादुत्क्षेपणादिपरिग्रहः । ततश्च गत्यादिभावे ऽपि तस्य निश्चलत्वमेव प्राप्नोति, अपरित्यक्तागत्यादिरूपत्वाद्यथा निश्चलावस्थायाम् । प्रस्पन्दः – कर्म सोऽस्मास्तीति प्रस्पन्दवत् । निश्चलात्मककालवदिति सप्तम्यन्ताद्वतिः ॥ ७०१ ।। ७०२ ॥ अथापि स्यात् — नैवाऽस्यैकरूपता, किं तर्हि ? गनगन्तृरूपतयोभयरूपत्वादतो यथोक्तदोषप्रसङ्गः, देवोश्चासिद्धतेत्याशाह - यदि त्वित्यादि । यदि तु स्याद्गन्ताऽयमेकदा चान्यथा पुनः । परस्परविभिन्नात्मसंगतेर्भिन्नता भवेत् ॥ ७०३ ॥ एकदा चेति । चकारो विभिन्नक्रमः, पुनरित्यस्यानन्तरं द्रष्टव्यः । पुनश्च अ म्यमेत्यर्थः । एवं हि गन्तृत्वागन्तृत्वादिविरुद्धधर्माध्यासादेकत्वहानिप्रसङ्गः ॥ ७०३ ॥ अत एव तस्य क्षणिकत्वं सिद्धमिति दर्शयन्नाह — अत्यन्तभिन्नावित्यादि । अत्यन्तभिन्नावात्मानौ ताविति व्यवसीयते । विरुद्धधर्मवृत्तित्वाचलनिश्चलवस्तुवत् ॥ ७०४ ॥ ताविति । चलाचलावस्थाभाविनौ । चलनिश्चलवस्तुवदिति । लतापर्वतादिवदित्यर्थः ॥ ७०४ ॥ די एवं तावदनुमानबाधां प्रतिज्ञायाः प्रतिपाद्य प्रत्यक्षणाधामपि प्रतिपादयन्नाह - दृश्यत्वेत्यादि । 1 दृश्यत्वाभिमतं कर्म न वस्तुव्यतिरेकि च । दृश्यते सोपि नैवास्य सत्ता युक्तयनुपातिनी ॥ ७०५ ॥
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy