________________
- पत्रिकासमेतः। अथापि स्याचदि नाम क्षणिकता भावानामस्मामिरिष्यते । तथाप्यमीषां जन्म कालभाविन्येक क्रिया कस्मान भवतीत्याह-पश्चिमेत्यादि ।
पश्चिमाग्रिमदेशाभ्यां विश्लेषाऽऽश्लेषसंभवे । गन्ताऽपरो वा सर्वश्च कर्माधारः प्रकल्पितः ॥ ६९६ ॥ यो जनः क्षणमध्यास्ते नैव जातु चलात्मकः ।
तस्याण्वन्तरमात्रेऽपि देशसंक्रान्त्यसम्भवः ॥ ६९७ ॥ यस्य हि पाश्चात्त्यदेशविश्लेषः संभवति, पुरोवर्तिना देशेनाऽऽश्लेषः स गन्ता भवत्यपरो वा प्रसारणाद्याधारः, नत्वन्यो यथाऽऽकाशादि । नचैकक्षणमात्रभाविन इयान्परिलम्बोऽस्ति, येन पूर्वदेशपरिहारपूर्वकमपरदेशमाक्रामेत् । सत्ताकाल एवास्तमयवशीकृतत्वादपर्याप्तो देशान्तरमाक्रमितुम् । तस्माजन्मकालभाविन्यपि क्रिया न युक्ता । नापि पूर्वोत्तरयोः कोटयोस्तदानीं तस्यानुपाख्यत्वात् । अतो यः क्षणमपि नास्ते तस्याऽऽस्तां तावद्विदूरतरदेशान्तरावक्रमण(णा ?)सम्भवः । अपितु परमाणुमात्रप्रदेशसंक्रमणमपि नास्तीति कुतः क्षणिकस्य क्रिया ॥ ६९६ ॥ ६९७ ॥ नाप्यक्षणिकस्येति दर्शयति स्थैर्ये वित्यादि ।
स्थैर्ये तु वस्तुनः सर्वे दुर्घटा गमनादयः।
सुतरामेव सर्वासु दशाखस्याविशेषतः ॥ ६९८ ॥ एकल्पं हि सदा वस्त्वक्षणिकमुच्यते, तस्य सुतरामेव क्रियासमावेशो न संभवति, आकाशवत्सर्वदा निर्विशिष्टत्वात् । प्रयोगः यत्सर्वदा निर्विशिष्टं न तस्य क्रिया संभवति, यथाऽऽकाशस्य, निर्विशिष्टं चाक्षणिकाभिमतं सर्वदा वस्त्विति व्यापकविरुद्धोपलब्धिः ॥ ६९८॥
सादेतचदि नामाविशिष्टमक्षणिकं वस्तु, तथापि प्रकृत्यैव तस्स गनाविरूपत्वा. क्रियावत्त्वं भविष्यतीत्यतोऽनैकान्तिकता हेतोरित्याशयाह-यदीत्यादि ।
यदि गन्नादिरूपं तत्प्रकृत्या गमनादयः। सदा स्युः क्षणमप्येवं नावतिष्ठेत निश्चलम् ॥ ६९९ ॥ यस्माद्गत्याचसत्त्वेऽपि प्रामुवन्त्यस्य ते ध्रुवम् ।
अत्यतपूर्णरूपत्वाद्गत्याशुदयकालवत् ॥ ७००॥ यदि समी देवदचादयः क्षणिकत्वेनामिमताः प्रकृत्या गमनोत्क्षेपणादियोगिनतदा