________________
२३२
तवसङ्ग्रहः ।
1
साधारणं कार्यमतः कार्यतः सिद्धिरस्य । तथा प्रत्यक्षतोऽपि । यथोक्तम् - " सङ्ख्या - परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे कर्म च रूपिसमवायाश्चाक्षुषाणी” ति । तदेषा सङ्क्षेपात्परप्रक्रियोक्ता । तदत्र संयोगविभागयोः पूर्वं निषिद्धत्वात्कार्यमसिद्धम् । अथ नैरन्तर्येणोत्पादा दिमात्रलक्षणौ संयोगविभागौ तत्कार्यतया 4 हेतुत्वेनोच्यते, एवमप्यनैकान्तिकता हेतोः । तथाविधेन कर्मणा तयोः क्वचिदप्यन्वयासिद्धेः । साध्यविपर्ययेण च हेतोर्व्याप्तर्विरुद्धताऽपि । कारणमात्रासि च साध्ये 1 सिद्धसाध्यता, वाय्वादीनां तथाविधसंयोगविभागकारणत्वेनाभीष्टत्वात् । विशेषे च साध्ये प्रतिज्ञाया अप्यनुमानबाधा । तथाहि — क्रियासमावेशो भवन्पदार्थस्य क्षणिकस्य वा (ऽक्षणिकस्य वा) । न तावत्क्षणिकस्य, तस्य जन्मदेश एव च्युतेः --नाशाद्देशान्तरप्रात्यसंभवात् । प्रयोगः– यो यत्र देशे च्यवते न स तदुत्तरकालं तद्न्यदेशमाप्नोति, यथा प्रदीपादिः । जन्मदेश एव च्यवन्ते च सर्वे भावा विवक्षिता इति व्यापकविरुद्धोपलब्धिः ॥ ६९२ ॥
1
नानैकान्तिकता हेतोरिति दर्शयन्नाह — जन्मेत्यादि ।
जन्मातिरिक्तकालं हि क्रियाकालं परे जगुः । इष्टाशुतरनाशेषु दीपादिष्वपि वस्तुषु ॥ ६९३ ॥
इष्ट आशुतरो विनाशो येषां ते तथा । प्रदीपादेरपि हि शीघ्रतर कालविनाशितयाऽभीष्टस्यापि जन्मोत्तरकालभाविन्येव क्रिया, षट्क्षणस्थायित्वेनास्याक्षणिकत्वात् ॥ ६९३ ॥
कथमित्याह – तथाहीत्यादि ।
तथाहि कारणाऽऽश्लेषः सामान्यस्याभिव्यञ्जनम् । खावयवे ततः कर्म विभागस्तदनन्तरम् || ६९४ ॥ संयोगस्य विनाशश्च ततो द्रव्यस्य संक्षयः । पट्टक्षणस्थायितैवेष्टा दीपादावपि वस्तुनि ।। ६९५ ।। तथाहि ——स्वकारणसंबन्धकालस्तावत्प्रथमं भवति । ततः पश्चात्स्वसामान्यामिव्यक्तिकालस्ततोऽवयवकर्मकालस्तदनन्तरमवयवविभागकालस्ततः स्वारम्भकावयवसंयोगबिनाशस्ततो द्रव्यविनाश इति षट्क्षणस्थायितैव दीपादेरपि वस्तुनोऽभीष्टा । अतः क्षणिकस्य कस्यचिद्गतिमतः पदार्थस्याभावात्सर्वेषामेव क्रियावतां जन्मोत्तरकालभाविन्येन क्रिया । नाप्यसिद्धता हेतोरन्यस्य क्षणिकत्वायोगात् ॥ ६९४ ॥ ६९५ ॥