________________
पलिकासमेतः। धर्माधर्मलक्षणगुणदूषणमाह-मन इत्यादि ।
मनोयोगात्मनां पूर्व विस्तरेण निवन्धनात् । परोक्तलक्षणोपेतं नादृष्टमुपपद्यते ॥ ६९१ ॥
गुणपदार्थपरीक्षा। कर्तृफलदाय्यात्मगुण आत्ममनःसंयोगजः स्वकार्यविरोध्यदृष्टम् । तच द्विविध धर्माधर्मभेदात् । तत्र धर्मः कर्तुः प्रियहितमोक्षहेतुः । अधर्मस्त्वप्रियाहितप्रत्यवायहेतुरिति परोक्तादृष्टलक्षणम् । तदेतदात्मनो मनसस्तद्योगस्य च तत्कारणत्वेनामिमतस्य पूर्व निषिद्धत्वात्कारणाभावादेवासदिति सिद्धम् । शब्दस्त्वाकाशगुणतयाऽभीष्टः स प्रागेव निरस्तोऽक्रमाद्यापतित इत्यादिनेति न पुनरस्य दूषणमुच्यते ॥ ६९१ ॥
। इति गुणपदार्थपरीक्षा। कर्मपदार्थदूषणार्थमाह-क्षणेत्यादि ।
क्षणक्षयिषु भावेषु कर्मात्क्षेपाचसम्भवि।
जातदेशे च्युतेरेव तदन्यप्राप्त्यसम्भवात् ॥ ६९२ ॥ उत्क्षेपणमपक्षेपणमाकुञ्चनं प्रसारणं गमनमिति कर्माणीति सूत्रम् । तत्रोत्क्षेपणमूर्ध्वाध:प्रदेशाभ्यां संयोगविभागकारणं यत्कर्मोत्पद्यते । यथा-शरीरावयवे तत्संबद्धे वा मूर्तिमति द्रव्ये लोष्टादावूर्ध्व दिग्भागोपाधिमिराकाशप्रदेशाथैः संयोगकारणमधोदिग्भागावच्छिन्नैश्च विभागकारणं प्रयत्नादिवशायत्कर्मोपजायते तदुत्क्षेपणमु. च्यते । एतद्विपरीतं संयोगविभागकारणं कर्मावक्षेपणं । मजुद्रव्यस्य कुटिलत्वहेतुराकुञ्चनम् , यथोक्तम्-ऋजुनो बाहादिद्रव्यस्य येऽप्रावयवा अङ्गुल्यादयस्तेषां स्वसंयोगिमिराकाशाचैविभागे सति मूलप्रदेशैश्चांशादिमिः संयोगे सति येन कर्मणाऽवयवी बाह्रादिलक्षणः कुटिलः समुत्पद्यते तदाकुचनमिति । एतद्विपर्ययेण तु संयोगविभागोत्पत्ती येन कर्मणाऽवयवी ऋजुः संपद्यते तत्प्रसारणम् । यदनियतदिप्रदेशैर्घटादिमिः संयोगविभागकारणं तद्गमनम् । उत्क्षेपणादिकं चतुःप्रकारं कर्म नियतदिग्देशैराकाशैराशादिभिः संयोगविभागकारणम् । गमनं तु-अनियतदिग्भिः सर्वतोदिकः प्रदेशैः संयोगविभागौ करोति । अत एव पश्चैव कर्माणि संभवन्ति । भ्रमणस्पन्दनरेचनादीनां गमन एवान्तर्भावात् । एतच पंचविधमपि कर्म मूर्तिमद्रव्यवृत्तिसंयोगविभागकार्योनीतसत्त्वतया सिद्धम् । सर्वस्यैव संयोगविभागविशेषः