________________
२३०
तत्त्वसङ्कहः। __ अथापि स्यात्क्षणिकत्वेऽपि सर्वभावानामेकक्षणावस्थितौ प्रबन्धेन चानुवृत्तौ तस्म सामर्थ्यमुच्यत इत्यत्राप्याह-क्षणं त्वेकमित्यादि ।
क्षणं वेकमवस्थानं खहेतोरेव जातितः।
पूर्वपूर्वप्रभावाच प्रबन्धनानुवर्तनम् ॥ ६८८ ॥ स्वहेतोरेव निष्पद्यमाना एकक्षणस्थायिनः सिध्यन्ति । तथायात्मप्रतिलम्भलक्षणेवामीषां स्थितिरुच्यते, नतु प्रतिलब्धात्मसत्ताकानामुत्तरकालमात्मरूपसन्धारणलक्षणा, स्वयं चलात्मन उत्तरकालमवस्थानाभावात् । अवस्थाने वा कदाचिदप्यनिवृत्तिप्रसङ्गः पूर्ववत् । पश्चादप्यविशिष्टत्वात् , अतत्वभावप्रसङ्गाच्च । पूर्वपूर्वकारणसामर्थ्यकृतश्चोत्तरोत्तरकार्यप्रसव इति प्रबन्धेऽपि न संस्कारस्य सामर्थ्य सिध्यति
॥ ६८८॥
अक्षणिकस्य तर्हि स्थापकोऽसौ भवत्वित्याह-नान्यथेत्यादि।
नान्यथोदयवानेष कस्यासौ स्थापकस्ततः।. नचास्य दृष्टं हेतुत्वं संस्कारोऽन्योऽपि वा भवेत् ॥ १८ । उत्पन्नस्यैव चेष्टोऽयं वस्त्रादेः स्थापको गुणः ।
गुणसंस्कारनामैवं सर्वथापि न संभवी ॥ ६९० ॥ यो गक्षणिकस्तस्यान्यथात्वासम्भवात्स्वत एव स्थितिरिति किं कुर्वाणस्तस्यासौ स्थापको भवतीत्युक्तमेतत् । अथापि स्यात-माभूदसौ स्थापकः, किन्तु क्षणस्यैवोत्पादको भवतीत्याह-नचास्येत्यादि । प्रमाणाधीना हि प्रमेयस्य तत्त्वव्यवस्थितिः, न चास्य प्रसिद्धकारणव्यतिरेकेण वखादिषु प्रत्यक्षानुपलम्भाभ्यां चक्षुरादिवद्वा कार्यव्यतिरेकतो दृष्टं-निश्चितं हेतुत्वम् , येन तद्व्यवहारः स्यात् । अथादृष्टसामर्थ्यस्यापि हेतुत्वं कल्प्यते, तदा संस्कारः, अन्योऽपि वा-शुकबकादिरुत्पत्तेहेतुर्भवेत् । कल्पनीय इति शेषः । न ह्यदृष्टशक्तित्वेन कश्चिद्विशेषोऽस्ति, येनैकस्मिन्नेव संस्कारात्मन्यपरिनिश्चितसामर्थे कल्पनापरितोषो भवतां स्यात् । नचाप्ययमुत्पादहेतुरिष्टो भवद्भिः, अपि तूत्पन्नस्य सतो वस्त्रादेरुत्तरकालं स्थापको गुण इष्यते । तत्र चाकिंचिकरत्वमस्येति पूर्वमुपवर्णितम् । अभ्युपगम्य तूत्पत्तिहेतुत्वं दूषणमिदममिहितम् । कदाचित्कश्चित्खसमयसीमानमप्यतिपत्यैवं कल्पयेदिति भावः । गुणसंस्कारनामे त्यादिना पूर्वमुपसंहरति ॥ ६८९ ॥ ६९० ॥