SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ पञ्जिकासमेतः । न्यत्वं शक्यं वक्तुम्, अन्यथोत्पत्तिकारणाभावात् । सर्वत्रैव हि तत्समवायिकारणमिष्वादि निर्विशिष्टमेव । नच कर्माख्यं कारणं पचाद्विशिष्यत इति युक्तमभिधातुम्, 1 तस्यापि तुल्यपर्यनुयोगत्वात् । अन्यत्वेऽपि वा पश्चाद्वेगस्य पूर्वकस्य विनाशकारणामावान्तादवस्थ्यमेवेत्यपात एव स्याच्छरस्य । नच वायुसंयोगस्तस्य विनाशकारणमर्वागेव पतनप्रसङ्गादित्युक्तमेतत्, सर्वत्र वायोरविशेषेण तत्संयोगस्याप्यविशिष्टत्वादिति यत्किंचिदेतत् ॥ ६८४ ।। ६८५ ।। भावनाख्यस्य दूषणमाह - भावनाख्यस्त्वित्यादि । २२९ भावनाख्यस्तु संस्कारश्चेतसो वासनात्मकः । युक्तो नात्मगुणश्चेदं युज्यते तन्निराकृतेः ॥ ६८६ ॥ यदि हि स्मृत्यादिकार्यतः सामान्येन भावनामात्रं तदा सिद्धसाध्यता । तथाहि - पूर्वानुभवाहितसामर्थ्यलक्षणा चेतसः स्वात्मभूता भावना स्मृत्यादिहेतुरिष्यत एव । यस्या वासनेति प्रसिद्धिः । अथात्मगुणस्वभावा भावना साधयितुमिष्टा, तदा कचिदपि तथाविधया सह स्मृत्यादीनामन्वयासिद्धेरनैकान्तिकता हेतोः । प्रतिज्ञा - याश्चानुमानबाधा । आत्मनस्तदाधारस्य पूर्व निराकृतत्वेनासत्त्वात्तस्या अप्यसत्त्वसिद्धिः । प्रयोगः– ये यदाश्रितास्ते तस्याभावे सति नावस्थितिमनुवते, यथा चित्रं कुड्याद्यभावे, आश्रितश्चात्मानं संस्कारः परमतेनेति व्यापकविरुद्धोपलब्धेर्न चेष्टासिद्धिः । तस्यात्मनः पूर्व निराकृतत्वात् । तस्माचेतसो वासनात्मक एव युक्तः संस्कारो नात्मगुण इति प्रमाणफलमेतत् । एकस्य प्रमाणसिद्धत्वादपरस्य विपर्ययादिति भावः ॥ ६८६ ॥ तृतीयस्यापि दूषणमाह — स्थितेत्यादि । स्थितस्थापकरूपस्तु न युक्तः क्षणभङ्गतः । स्थितार्थासम्भवाद्भावे ताद्रूप्यादेव संस्थितिः ॥ ६८७ ॥ तथाहि — यमसौ पदार्थ स्थितं स्थापयति कदाचिदसौ स्वयमस्थिरस्वभाव एव, - यद्वा स्थिरस्वभाव एवेति पक्षद्वयम् । यद्यस्थिरस्वभावस्तदा तस्य क्षणादूर्ध्वमभावात् कस्यासौ स्थापको भवेत् । अथ द्वितीयः पक्षस्तदा भावे - सत्वे, स्थितानामर्थानां ताद्रूप्यादेव – अप्रच्युतस्थितरूपत्वात् स्थितिरिति किमकिंचित्करेण स्थापकेन परि " कल्पितेनेति पूर्ववद्दूषणं वाच्यम् ।। ६८७ ।।
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy