________________
तस्वसङ्कहः ।
क्षणिकत्वात्पदार्थानां न काचिद्विद्यते क्रिया।
पत्प्रवन्धस्य हेतुः स्यात्संस्कारो वेगसंज्ञकः ॥ ६८५ ॥ विविधः संस्कारो वेगो भावना स्थितस्थापकश्चेति । तत्र वेगाख्यः पृथिव्यप्तेजो । बाघुमनस्तु पञ्चसु मूर्तिमत्सु द्रव्येषु प्रयत्नाभिघातविशेषापेक्षात्कर्मणो जायते । स प नियतदिक्क्रियाप्रबन्धहेतुः, स्पर्शवव्यसंयोगविरोधी । तथाहि-शरा प्रयभविशेषजनितकर्मविशेषहेतुक एव । यद्वशादन्तरालशिरस्यापतनं भवत्यतएवासौ नियतादिक्रियाकार्योन्नीयमानसद्भावतया सिद्धः । शाखादौ तु लोष्टाभिघातजनितकमजः । भावनासंज्ञस्त्वात्मगुणः । योऽसौ ज्ञानजो ज्ञानहेतुश्चोच्यते, स च दृष्टश्रुतानुभूतेषु स्मृतिप्रत्यभिज्ञानकार्योनीतसत्त्वतया सिद्धः । स्थितस्थापकस्तु मूर्तिमद्रव्यगुणः, यो हि घनावयवसनिवेशविशिष्टं कालान्तरावस्थायिनं स्वमाश्रयं प्रयबेनान्यथाकृतं पूर्ववद्यथावस्थितं स्थापयति । यथा चिरकालसंवेष्टितस्य तालपत्रादेः प्रसार्यावमुक्तस्य पुनस्तथैवावस्थानम् । धनुःशाखाशृङ्गदन्तादिषु वस्त्रादिषु च भुमावर्तितेषु तस्य कार्य लत्यत एव । अखिल इति । त्रिविधोऽपि । तत्र वेगाल्यस्य कर्मसम्बन्धाख्यं कार्यमसिद्धम् । अशेषपदार्थजातव्यापिनः क्षणभङ्गस्य प्रसाधितत्वात् । ततश्च स्वभावप्रतिलम्भादूर्ध्व सर्वभावानामसत्त्वान्न काचित्क्रियाऽस्ति, यस्याः क्रियायाः प्रबन्धस्य हेतुरसौ भवेत् । अथ स्वोपादानदेशपरिहारेण प्रतीयमानो भावानामुत्पाद एव क्रियाप्रबन्धोऽभिप्रेतस्तथाऽप्यनेकान्तिकत्वम् , यतः पूर्वका एव हेतुप्रत्यया भावानां तथा तथोत्पद्यमानानां तथाविधात्मभूतक्रियाप्रबन्धतोऽनुमीयन्ते, न यथोक्तः संस्कारः । तेन सह कचिदप्यन्वयासिद्धेः । किंच यदि तथाविधसंस्कारबलादपतनमिष्वादीनां स्यात्तदा न कदाचिदपि ते पतेयुः, सर्वत्र पातप्रतिबन्धहेतोर्वेगस्यावस्थितत्वात् । ततश्चाविशिष्टाकाशदेशप्रसर्पिणो विशिखस्याकस्माद्यदेतत्पतनमुपलभ्यते तत्कथमुपपद्यते । नच मूर्त्तिमतां सतां वाय्वादीनां संयोगाटुपहतशतित्वाद्वेगस्य विनाशात्पतनमिति शक्यं वक्तुम , अर्वागेव पतनप्रसङ्गात् , सर्वत्रैव वायुसंयोगस्तद्विरोधी विद्यत एव । अथापि स्यादागेकान्तबलीयस्त्वाद्वेगस्य विरोधिनमपि वायुसंयोगं प्रतिविध्यासौ वेगो नयति देशान्तरमिषुमिति । यद्येवं परस्माकेन तस्याबलीयस्त्वं येन सुदूरमपि देशं तं न नयेत् । दृश्यते हि सर्वत्राविशिष्टवायुसंयोगवत्याकाशवले प्रसर्पतोऽपि शरस्यान्तराले पतनम् । नच वेगस्य पश्चाद