________________
पलिकासमेतः।
२२५ प्रतिषिद्धाः । बुवादयस्तु प्रयत्नान्ता आत्माश्रितत्वेन तद्गुणा इष्टाः । ते चात्मनिषेधादेव निषिद्धा द्रष्टव्याः । नचैषामात्माऽऽश्रयो युक्तः, तथाहि-उत्पत्तिहेतुतया थामीषामात्माऽऽश्रयो भवेस्थितिहेतुतया वा । न तावदुत्पत्तिहेतुतया, सर्वदेवाविकलकारणतया सुखादीनामुत्पत्तिप्रसङ्गात् । न च परैरनाधेयातिशयस्य सहकारिव्यपेक्षा काचिदस्तीति शतशश्चर्चितमेतत् । न चापि नित्यस्य कार्योत्पादनसामर्थ्यमस्ति, तस्य क्रमयोगपद्याभ्यां व्याप्तत्वात् । नित्यस्य च क्रमयोगपद्याभ्यामर्थक्रियाविरोधस्य प्रतिपादितत्वात् । नापि स्थितिहेतुतया युक्तः, स्थितेः स्थातुरव्यतिरिच्यमानरूपत्वात् । तद्धेतुत्वे स्थातृहेतुत्वमेवोक्तं स्यात् । तच्चानन्तरमेव निषिद्धम् । तस्य च स्थातुः परिनिष्ठितात्मस्वरूपत्वान्न कश्चिद्धेतुः संभवति । तन्य तत्राकिंचित्करत्वान् । व्यतिरेकेऽपि स्थितेः स्थातुस्तेन न किंचित्कृतमर्थान्तरभूतायाः स्थितेः करणात । ततशाकिंचित्करः कथं तस्याश्रयो भवेन । नापि तत्सम्बन्धिन्याः स्थिते: करणात्तस्यायमुपकारको युक्तस्तत्सम्बन्धित्वासिद्धेः । न चापि स्थिति प्रति हेतुत्वं युक्तम् । नित्यस्य कचिदपि सामर्थ्यानुपपत्तेरित्युक्तम् । किंचासौ स्थाप्यमानो भावः स्वयमस्थिरखभावो वा भवेत् , स्थिरस्वभावो वा । यद्यस्थिररूपस्तत्कथं परेण स्थापयितुं शक्येत । तत्स्वभावहानिप्रसङ्गात् । अथ स्थिरस्वभावस्तथापि स्थापकोऽकिंचित्कर एव, खयमेव तत्स्वभावतया तस्य स्थितिसिद्धेः। किंच-ये तावन्मू" भावास्तेषामधोगमनप्रतिबन्धकत्वेन भवेनामाश्रयकल्पना, ये पुनरमी सुखादयस्तेषाममूर्त्ततया नाधोगमनमस्तीति किंकुणिस्तेषामाश्रयो भवेत् । सदसतोश्च निराशंसत(या)नुपाख्यत्वेन चाश्रयणानुपपत्तिरिति । एवं सुखादीनामन्येषां च यथायोगमाश्रितत्वासिद्धेर्न गुणो नामास्तीति भावः । किंच बुद्धिर्ज्ञानस्वभावाऽङ्गीकृता परैः । यथोक्तम्- "बुद्विरुपलब्धिनिमित्यनर्थान्तर"मिति । तस्याश्चैवंरूपाया अपि न स्वसंविदितरूपमिष्टं परैः । किन्तु बुद्ध्यन्तरगम्यत्वमेव । तथाभूतायाश्च रूपादिवत्स्वतोऽसिद्धेर्बुद्धित्वमेवायुक्तमिति प्रतिपादयिष्यति ॥ ६८३ ॥
सुखदुःखेच्छाद्वेषप्रयत्नानामप्यज्ञानरूपत्वमिष्टम् । तदपि प्रमाणलक्षणपरीक्षायां निषेत्स्यते । गुरुत्वद्वत्वस्नेहानां तु रूपादिवत्प्रतिषेधो विधेय इत्येवमालोच्यैषां प्रतिषेधमकृत्वा संस्कारप्रतिषेधमाह-वेगाख्य इत्यादि ।
वेगाख्यो भावनासंज्ञः स्थितस्थापकलक्षणः। संस्कारखिविधः प्रोक्तो नासौ संगच्छतेऽखिलः ॥ ६८४॥