________________
२२६
तस्वसहहः।
तदेतनिःस्वभावतयेत्यादिना प्रतिविधत्ते ।
निखभावतया तस्य तत्त्वतोऽम्बरपद्मवत् । न सिद्धा नियता धर्माः कल्पनारोपितास्तु ते ॥ ६८०॥ तथैवोक्तावनेकान्तो वियत्पद्मादिभिर्यतः ।
अभेदो व्यतिरेकश्च वस्तुन्येव व्यवस्थितः ॥ ६८१ ॥ यदि हि पारमार्थिकनियतधर्मत्वं हेतुरिष्टस्तदा हेतोरसिद्धता । नहि बौद्धं प्रतिसन्तानादीनां संवृतिसतां पारमार्थिकनियतधर्मयोगित्वं सिद्धम् । अथ सामान्येन हेतुस्तदा वियत्पद्मादीनामप्यभावत्वामूर्त्तत्वादयः कल्पिता नियतधर्माः सन्येवेत्यनैकान्तिकता हेतोः । तथैवोक्ताविति । सामान्येन विकल्पितानुपाख्यवृत्तिधर्मपरित्यागेनोक्तौ सत्यामित्यर्थः । इतश्चानैकान्तिकत्वमस्य हेतोः । यस्मादभेदोऽनन्यत्वं, व्यतिरेकोऽन्यत्वम् , एतौ वस्तुन्येव व्यवस्थितौ, नान्यत्र । सन्तानादयश्च प्रज्ञप्तिसत्त्वेनावस्तुसन्तस्तत्कथमेषां वस्तुनः सकाशाद्भेदाभेदौ सिद्ध्यतः । तदेवं प्रथमे प्र. योगे सङ्ख्यादीनां द्रव्यादव्यतिरेकप्रतिषेधमात्रे साध्ये सिद्धसाध्यतेति प्रतिपादितम् ॥ ६८० ॥ ६८१ ॥
सङ्ख्यादेव्यतोऽन्यत्वमेवं चेत्प्रतिपाद्यते ।
आश्रयासिद्धता हेतोः सङ्ख्यादीनामसिद्धितः ॥ ६८२॥ अथापि स्यान्नाव्यतिरेकप्रतिषेधमात्रं साध्यते, किं तर्हि ? द्वौ प्रतिषेधौ विधिमेव गमयत इति प्रतिषेधद्वयेन द्रव्याद्व्यतिरेकित्वमेव साध्यत इति । तदेतत्सङ्ख्यादेरित्यादिनाऽऽशयाश्रयासिद्धतेत्यादिना प्रतिषेधति-एवमिति । न द्रव्याव्यतिरेकिणः । किं तर्हि ? व्यतिरेकिण इत्यर्थः ॥ ६८२ ॥ तदेव सङ्ख्यादेराश्रयस्यासिद्धत्वं दर्शयति-समुच्चयादीत्यादिना ।
समुच्चयादिभिन्नं तु द्रव्यमेव तथोच्यते ।
खरूपादेव भेदश्च व्याहतः साधितो भवेत् ॥ ६८३ ॥ तथोच्यत इति । एको द्वौ बहव इत्येवमादिः । स्यादेतत्-द्रव्यात्मकस्यापि सतः सयादेर्भेदः प्रसाध्यत इत्याह-स्वरूपादेवेत्यादि । नहि वस्तुनः स्वरूपाढ़ेदोऽस्ति, तस्य निःस्वभावत्वप्रसङ्गात् । व्याहत इति । परस्परविरुद्धः । भेदाभेदयोः परस्परपरिहारस्थितलक्षणतया युगपदेकत्र विरुद्धत्वात् । एवं तावत्परत्वान्ता गुणाः