________________
२२५
पञ्जिकासमेतः। बुद्धिः सा परपरिकल्पितगुणरहितार्थमात्रकृतक्रमोत्पादव्यवस्थानिबन्धना, परापरबुद्धित्वात् , यथा रूपादिषु परापरबुद्धिः, परापरबुद्धिश्चेयं घटादिग्विति स्वभावहेतुः। नीलादिष्वेकार्थसमवायादुपचरितेयं परत्वादिबुद्धिरतोऽनैकान्तिकता हेतोः, पारंपर्येण डीलादिष्वपि परत्वादेनिमित्तभावोपगमात्साध्य विकलता च दृष्टान्तस्येति चेन्न । प्रतिविहितमेतदस्खलद्गतित्वान्नौपचारिकत्वं युक्तमिति । स्वाश्रयेऽपि तयोरुपल. ध्यभावाच न तद्बलेन प्रत्ययो युक्तः । तत्कुतो रूपादिपु तन्निबन्धनो भविष्यति । सुखादिषु वा पूर्वोत्तरकालभाविषु किं कल्प्येत, नहि तत्रैकार्थसमवायोऽस्ति । अपिच दिकालयोः पूर्व प्रतिषिद्धत्वेनाभावात्तद्धेतुकयोरपि परत्वापरत्वयोरभाव इति कुतस्तन्निमित्तत्वाशङ्का । येन हेतोरनैकान्तिकता भवेत् । नचापि दिकालयोर्भवतः प्र. देशाः सन्ति, यत्संयोगादपेक्षाबुद्धिसहितात्परत्वादेरुत्पत्तिः स्यात् , तयोरेकात्मतया निरवयवत्वात् । न चोपचरितोऽवयवभेदोऽर्थक्रियानुरोधी युक्तः, वस्तुस्वभावप्रतिबद्धत्वात्तस्याः, उपचरितस्याचालीकत्वादिति नानैकान्तिकता । परकीयस्य च हेतोः पूर्ववदसिद्धत्वं वाच्यम् ॥ ६७५ ॥ ६७६ ॥ सङ्ख्येत्यादिना परकीयं प्रस्तुतसङ्ख्यादिगुणपदार्थसाधनमाशङ्कते ।
सङ्ख्यायोगादयः सर्वे न द्रव्याव्यतिरेकिणः। तद्व्यवच्छेदकत्वेन दण्डादिरिव चेन्मतम् ॥ ६७७ ॥ तेषां संवृतिसत्त्वेन वर्णनादिष्टसाधनम् ।
तत्त्वान्यत्वेन निर्वाच्यं नैव संवृतिसद्यतः ॥ ६७८ ॥ सर्व एवामी यथोक्ताः सङ्ख्यादयो गुणा न द्रव्यादव्यतिरेकिणस्तस्य द्रव्यस्य तेषां व्यवच्छेदहेतुत्वात् , यो हि यद्यवच्छेदको नासौ तदव्यतिरेकी, यथा दण्डादिदेवदत्तस्येति । तदत्र द्रव्यादव्यतिरेकित्वनिषेधमात्रे साध्ये सिद्धसाध्यता दोषः प्रतिज्ञायाः । संवृतिसतां सर्वेषामवस्तुतया तत्त्वान्यत्वाभ्यामवाच्यतयाऽभीष्टत्वात् ॥ ६७७ ॥ ६७८॥ अथेत्यादिनानाविद्धकर्णस्योत्तरमाशङ्कते ।
अथानिर्वचनीयत्वं समूहादेनिषिध्यते।
यमानियतधर्मत्वं रूपशन्दरसादिवत् ॥ ६७९ ॥ सहाह-समूहसन्तानावस्थाविशेषास्तत्त्वान्यत्वाभ्यामवचनीया न भवन्ति प्रतिनियतधर्मयोगित्वादूपरसादिवदिति ॥ ६७९ ॥