________________
२२४
तत्त्वसङ्ग्रहः। इदं परमिदमपरमिति यतोऽमिधानप्रत्ययौ भवतस्तत्परत्वमपरत्वं च यथाक्रम परापरामिध्याननिमित्तं सिद्धम् । आदिशब्देन प्रत्ययो गृह्यते । प्रयोगः-येयं परमपरमिति संवित्सा घटादिव्यतिरिक्तार्थान्तरनिबन्धना, तत्प्रत्ययविलक्षणत्वात्सुखादिबुद्धिवदिति । तथा खेकस्यां दिशि स्थितयोः पिण्डयोः परमपरमिति बुद्धिप्रवृत्ति , तावदियं दिनिबन्धना । नापि कालनिबन्धना, एकस्मिन्नपि प्रवर्त्तमाने काले वर्तमानयोरनियतदिग्देशसंयुक्तयोर्युवस्थविरयोविभागेन परापरबुद्धिप्रवृत्तेस्तदविशेषेऽपि विशेषादिति भावः । नचान्यदस्या बुद्धेर्निबन्धनमभिधातुं पार्यते । तस्माद्यन्निबन्धनेयं तत्परत्वमपरत्वमिति सिद्धम् । दिकालावधिकं न तदिति । दिकालप्रदेशसंयुक्त. सनिकृष्टविप्रकृष्टपदार्थावधिकं न भवतीत्यर्थः । दिकालशब्दाभ्यांद्युपचारादिकालप्रदेशसंयुक्तयोर्निर्देशः । तथा ह्येतत्परत्वमपरत्वं च द्विविधमपि दिकृतं कालकृतं चेति वर्णितं परेण । तत्र दिकृतस्यैवमुत्पत्तिः । एकस्यां दिश्यवस्थितयोः पिण्डयोरेकस्य द्रष्टुः संनिकृष्टमवधिं कृत्वैतस्माद्विप्रकृष्टोऽयमिति परत्वाधारे बुद्धिरुत्पद्यते, ततस्तामपेक्ष्य परेण दिक्प्रदेशेन संयोगात्परत्वमुपजायते । विप्रकृष्टं चावधिं कृत्वैतस्मात्सन्निकृष्टोऽयमित्यपरत्वाधारे बुद्धिरुत्पद्यते, तामपेक्ष्यापरेण दिक्प्रदेशेन संयोगाद- : परत्वस्योत्पत्तिः । कालकृतयोस्त्वयमुत्पत्तिक्रमः । तथाहि-वर्तमानकालयोरनियतदिग्देशसंयुक्तयोर्युवस्थविरयोर्मध्ये यस्य वलीपलितरूढश्मश्रुतादिनाऽनुमितमादित्योदयास्तमयानां बहुत्वं तत्रैकस्य द्रष्टुयुवानमवधिं कृत्वा विप्रकृष्टा बुद्धिरुत्पद्यते तामपेक्ष्य परेण कालप्रदेशेन संयोगात्परत्वस्योत्पत्तिः । स्थविरं चावधिं कृत्वा यस्यारूढश्मश्रुतादिनाऽनुमितमादित्योदयास्तमयानामल्पत्वं, तत्र यूनि सन्निकृष्टबुद्धिरुत्पद्यते, तामपेक्ष्यापरेण कालप्रदेशेन संयोगादपरस्योत्पत्तिरिति । तदेतत्परत्वापरत्वसाधनमनैकान्तिकं साध्यविपक्षेऽपि हेतोवृत्तेरिति दर्शयति-यथा नीलादिरूपाणीत्यादि । भाव उत्पादस्तत्सहिता व्यवस्थितिः, क्रमेण भावव्यवस्थितिरिति विग्रहः । एतदुक्तं भवति-यथा नीलादिपु क्रमेणोत्पादात्कालोपाधेः क्रमेण व्यवस्था, न गुणोपाधेः, परं नीलमपरं नीलमिति परापरव्यपदेशो भवत्यसत्यपि परत्वापरत्वलक्षणे गुणे, निर्गुणत्वाद्गुणानां, तथा घटादिष्वपि किं नेष्यते । एतेनैतदर्शयति । यद्यर्थान्तरनिमित्तत्वमात्रमिह साधयितुमिष्टं तदाऽनैकान्तिकता हेतोः, साध्यविपर्ययेऽपि तस्य वृत्तः । अथ नित्यभूतदिकालपदार्थहेतुको यो गुणविशेषस्तनिबन्धनत्वमस्या बुद्धः साधयितुमिष्टं सदा दृष्टान्ताभावः । प्रतिज्ञायाश्चानुमानबाधा । तथाहि शक्यमिदं कर्तु, या परापर