________________
पलिकासमेतः।
२२३ यवस्थाविशेषनिबन्धनेयं मतिरुपवर्णिता तस्योपलब्धिलक्षणप्राप्तस्यान्यस्यामवस्थायामनुपलम्भे सति प्रतिषेधो विधीयते, न तु भवत्परिकल्पितस्य संयोगस्य, तस्य संयोगिपदार्थविवेकेन कचिदपि बुद्धावप्रतिमासनात् । तस्मान्नासिद्धता हेतोः।।६७१॥ *. स्यादेतत्-यदि नाम साधकं प्रमाणं संयोग प्रति न जातमस्माकं, भवतां तु किं बाधकं प्रमाणमित्याह-न पराभिमतादित्यादि ।
न पराभिमताद्योगाजायते युक्तवस्तुधीः । युक्तबुद्धितया यद्वत्मासादादिषु युक्तधीः॥ ६७२ ॥ अनेकवस्तुसद्भावे जायमानतयाऽथवा। विभक्तानेकतन्त्वादिविषया इव बुद्धयः ॥ ६७३ ॥ विभागेऽपि यथायोगं वाच्यमेतत्प्रमाद्वयम् ।
एकस्यानेकवृत्तिश्च न युक्तेति प्रवाधकम् ॥ ६७४ ॥ प्रयोगः-या संयुक्तबुद्धिः सा भवत्परिकल्पितसंयोगानास्पदवस्तुविशेषमात्रभाविनी, यथा संयुक्तौ प्रासादावित्यादौ, संयुक्तबुद्धिश्चेयं चैत्रः कुण्डलीत्यादाविति स्वभावहेतुः । अथवा-याऽनेकवस्तुसन्निपाते सत्युपजायते, सा भवत्परिकल्पितसंयोगरहितानेकवस्तुविषयमात्रभाविनी, यथा प्रविरलावस्थितानेकतन्तुविषयाः प्रत्ययातथा चेयं संयुक्तधीरिति स्वभावहेतुः । युक्तधीरिति । संयुक्तबुद्धिरित्यर्थः । एतदेव प्रमाणद्वयं विभागप्रतिषेधे वाच्यम् । विभक्तबुद्धित्वादनेकपदार्थासन्निधानायत्तोदयत्वावा परामिमतविभागरहितपदार्थविशेषमात्रनिबन्धना मेषादिषु विभागबुद्धिः, यथा दूरतरावस्थितमेषद्वयविषया विन्ध्यहिमवद्विषया वा धीरिति । अथ किमत्र साध्यविपर्यये हेतोर्बाधकं प्रमाणं येन हेतोर्विपक्षे प्रचाराशङ्का निवर्त्तत इत्याह-एकस्येत्यादि । यथैकस्पानेकत्र वृत्तिर्न युक्ता तथा "तद्ध्येकवृत्तिभाजैव रूपेणे”त्यादिनाऽवयविनिषेधे प्रतानितमिति नेह पुनः प्रतायते ॥ ६७२ ॥ ६७३ ॥ ६७४ ॥ परस्वापरत्वयोर्दूषणमाह-परापरेत्यादि ।
परापराभिधानादिनिमित्तं यच्च कल्प्यते । परत्वमपरत्वं च दिकालावधिकं न तत् ॥ ६७५॥ यथा नीलादिरूपाणि क्रमभावव्यवस्थितेः। अन्योपाधिविवेकेऽपि तथोच्यन्ते तथाऽपरे ॥ ६७६ ॥