________________
२२२
योरेव विभागः सान्तरप्रत्ययनिमित्तमस्ति, निर्गुणत्वाद्गुणानामित्युक्तमेतत् । नहि हिमविन्ध्ययोरपि विभागः सान्तरबुद्धेर्हेतुरस्ति । प्राप्तिपूर्विका प्राप्तिर्विभाग इति समयात् ।। ६६७ ॥
तन्त्वसङ्ग्रहः ।
यथोक्तं या चेयं सान्तरे बुद्धिरित्यादि, तत्राह --- मिथ्येत्यादि । मिथ्याबुद्धिर्न सर्वैव प्रधानार्थानुसारिणी । साधर्म्यनिरपेक्षापि काचिदन्तरुपप्लवात् ।। ६६८ ।। अन्यत्र गतचित्तस्य द्विचन्द्रादिमतिर्यथा । अविच्छिन्नादिजातं वा प्रधानमिह विद्यते ॥ ६६९ ॥ सर्वा मिथ्याबुद्धिः साधर्म्यग्रहणादुपजायत इत्यसिद्धमेतत् । कस्याश्चित्साधर्म्यमनपेक्ष्यापीन्द्रियवैगुण्यमात्रेणोत्पत्तिदर्शनात् । यथाऽन्यत्रगतविकल्पचेतसोऽपि पुरोऽवस्थितैक चन्द्रा विपत्य ( दिप्रत्यय ? ) मात्रेण तिमिरोपपादितेन्द्रियवैगुण्याचन्द्रद्वयाकारानुस्यूता विशदतरप्रविभासिनी कल्पनाकलङ्कानङ्कितैव धीरुपजायते । अन्यत्र गतचित्तस्येत्यनेन निर्विकल्पत्वं द्विचन्द्रधियो दर्शयति । नहि निर्विकल्पचेतसि साधर्म्यग्रहणमस्ति । तस्य पूर्वापरदृष्टपदार्थैकत्वाध्यवसायात्मकत्वेन पूर्वानुभूतार्थाऽभिजल्पात्मकत्वात् । अथवा भवतु नाम पूर्वस्या मिथ्याबुद्धेः प्रधानार्थानुसारित्वं तथापि नेष्टसिद्धिर्भवत इति दर्शयति — अविच्छिन्नादिजातं वेत्यादि । आदिग्रहणेन. वि - च्छिन्नजातं वस्तु गृह्यते । तदेव हि वस्तु विच्छिन्नमविच्छिन्नं चोपजायमानमतज्जातीयपरिहारेण प्रवृत्यर्थं प्रथमतरं विनिवेशितविभक्ताद्यभिधानतया मुख्यमस्तीति नेष्टसिद्धिर्भवतः ॥ ६६८ ॥ ६६९ ॥
यदुक्तं कुण्डलीति मतिश्श्रेयमित्यादि, तत्राह - कुण्डलीत्यादि । कुण्डलीति मतियं जातावस्थाविशेषयोः । चैत्रकुण्डलयोरेव संयोग इव जायते ॥ ६७० ॥
यथैव हि संयोगक्षेत्रकुण्डलयोर्विशिष्टावस्थाप्राप्तौ सत्यामुपजायते, नहि सर्वदा, तद्वदियमपि कुण्डलीति मतिरवस्थाविशेषनिबन्धना भवन्ती किमिति सर्वदा भवेत् । जातोsवस्थाविशेषो ययोश्चैत्रकुण्डलयोस्ते तथोक्ते ॥ ६७० ॥
यत्रोक्तमन्यत्र दृष्टभावस्येत्यादि, तत्राह - सोऽवस्थातिशय इत्यादि । सोऽवस्थातिशयस्तादृग्दृष्टोऽन्यत्र निषिध्यते ।
चैत्रे कुण्डल इत्यादौ न संयोगस्त्वदृष्टितः ।। ६७१ ॥