________________
पत्रिकासमेतः।
२२१ दप्यनुत्पचिप्रसङ्गः । पूर्ववदजनकावस्थायां विकलकारणताया निर्विशिष्टत्वात् । नच क्षित्यादीनामनुपकारिणि संयोगेऽपेक्षा युक्तिमती, अतिप्रसङ्गात् । नचापि संयोगानां कादाचित्कत्वं युक्तं तत्कारणानां क्षित्यादीनां नित्यं सन्निहितत्वात् । अथ तत्रापि सं. गोगे जन्ये क्षित्यादीनां कर्मादिसापेक्षत्वमिष्यते । न । तत्रापि तुल्यपर्यनुयोगत्वात् । तथाहि-तदपि कर्म कस्मान्न जनयतीति पर्यनुयोगे किं वक्तव्यं स्यात् । तत्कारणनोदनाभावादिति चेत् , तस्यापि कस्मादभाव इति नित्यकारणाभ्युपगमे सर्वत्र तुल्यः पर्यनुयोगः । यस्य तु सर्वमेवानित्यं वस्तु तस्यानादित्वाद्धेतुपरम्परायाः सर्व. भावानां सकृदुत्पत्तिप्रसङ्गो न भवति । पूर्वपूर्वकारणप्रतिबद्धत्वादुत्तरेषाम् । तेषां च सर्वेषां युगपत्कारणवैकल्येनासन्निधानात् । तस्माद्भवत एव दर्शनेऽङ्करादिकार्यप्रसवहेतुत्वं क्षित्यादीनां सर्वदा प्रसज्यत इति न संयोगार्थान्तरसापेक्षाः क्षित्यादय इति सिद्धम् ॥ ६६५ ॥ यञ्चोक्तं सविशेषणभावाचेत्यादि, तत्राह-प्राप्तावस्थेत्यादि ।
प्राप्तावस्थाविशेषे हि नैरन्तर्येण जातितः।
ये पश्यत्याहरत्येष वस्तुनी ते तथाविधे ॥ ६६६ ॥ नहि संयुक्तपदार्थान्तरभूतः संयोगः प्रतिपत्तुर्दर्शनपथमवतरति, येन तद्दर्शना(त)द्विशिष्टे द्रव्ये आहरति । किं तर्हि प्राग्भाविनी ये सान्तरजातावस्थे ततो विशिष्टे ये निरन्तरोत्पन्ने वस्तुनी ते एव संयुक्तशब्दवाच्ये, अवस्थाविशेषे प्रसाधितत्वात्संयोगशब्दस्य । तेन यत्र तथाविधे वस्तुनी संयोगशब्दविषयभावापन्ने पश्यति, ते एवाहरति नान्ये, न हि शब्देनाबोधितेऽर्थे शब्दात्प्रवर्तते प्रेक्षावान् ॥ ६६६ ॥ यञ्चोक्तं निरन्तरमित्यादि, तत्राह-विच्छिन्नमित्यादि ।
विच्छिन्नमन्यथा चैव जातमेति निमित्तताम् ।
सान्तरानन्तरज्ञाने गेहविन्ध्यहिमाद्रिवत् ॥ ६६७ ॥ वस्त्वन्तरमेव तथोत्पद्यमानं बुद्धिभेदनिबन्धनमतोऽनैकान्तिकमेतदिति समुदायार्थः । तत्र विच्छिन्नं यज्जातं वस्तु तत्सान्तरबुद्धेनिमित्ततामेतीति संबन्धः । अन्यथा चेति । अविच्छिन्नम् , यजातमिति संबन्धः । गेहविन्ध्यहिमाद्रिवदिति । अनयोरेव यथायोगमुदाहरणम् । न झविच्छेदेनोत्पन्नयोः स्वयं संयोगात्मनोर्गेहयोरपरः संयोगो निरन्तरबुद्धेर्निबन्धनमस्ति परमतेऽपि, नापि विच्छेदेनोत्पन्नयोस्त