________________
२२०
तत्त्वसहः। सितमूर्तेः प्रतिषेधुमशक्यत्वात् , नापि चैत्रस्य, तत्तुल्ययोगक्षेमत्वात् , तस्माक्षेत्रस्य कुण्डलसंयोगः प्रतिषिध्यते । तथा चैत्रः कुण्डलीत्यनेनापि विधिवाक्येन चैत्रकुण्डलयोर्नान्यतरस्य विधानं तयोः सिद्धत्वात् । पारिशेष्यात्संयोगस्यैवाप्रतीतस्य विधेायते । तस्मादस्त्येव संयोगादिर्वास्तवो यद्वशात्रः कुण्डली न भवतीत्यादिनिषेधवि- धानादि प्रविभक्तमेव प्रतीयते । आदिशब्देन विशेषणत्वेनोपादानमित्यादि पूर्वोक्तपरिप्रहः ॥ ६६१ ॥ ६६२ ॥ ६६३ ॥ उच्यत इत्यादिना प्रतिविधत्ते।
उच्यते क्षणिकत्वेन नाविशेषा जलादयः ।
सत्त्वेऽप्यव्यवधानादि तेऽपेक्षन्ते दशान्तरम् ॥ ६६४ ॥ यदुक्तमविशेषाद्वीजादयः सदैव कार्य कुर्युरिति, तस्याविशिष्टत्वं बीजादीनामसिद्धम् , क्षणभङ्गितया सर्वभावानां विशिष्टावस्थानामेव जनकत्वात् । यचोक्तं क्षेत्रबीजादीत्यादि, तत्रापि सामान्येन सापेक्षत्वमात्रे साध्ये सिद्धसाध्यतेति दर्शयतिसत्त्वेऽपीत्यादि । इष्यन्त एवास्माभिरव्यवधानाद्यवस्थान्तरसापेक्षा बीजादयोऽङ्करादिकार्यनिर्वर्तनसमर्था विद्यमानत्वेऽपीति सिद्धसाध्यता । तत्राविद्यमाना व्यवधानादयो यत्र देशान्तरेऽवस्थाविशेषे तत्तथोक्तम् । आदिशब्देन विरोधिप्रत्ययप्रतिघातादिपरिग्रहः । यत्रावस्थान्तरे व्यवधानं दूरदेशावस्थानं विरोधिना प्रतिहतिरित्यादिकार्योसत्तिप्रतिबन्धकं नास्तीत्यर्थः । अवस्थायाश्च स्वभावाव्यतिरेकानार्थान्तरभूतसंयोगसिद्धिः । अथ भवदमिमतसंयोगाख्यपदार्थान्तरसापेक्षत्वं साधयितुमिष्टं तदा तथाविधेन धर्मेण हेतोरन्वयासिद्धेरनैकान्तिकता, दृष्टान्तस्य च साध्यविकलतेति भावः ॥ ६६४ ॥
स्यादेतत्कथमिदमवगम्यतेऽवस्थान्तरविशेषसापेक्षाः क्षित्यादयोऽङ्कुरादिकार्यप्रसवहेतवो न पुनरर्थान्तरभूतसंयोगसापेक्षा येन सामान्येन सापेक्षत्वमाने साध्ये सिद्धसाध्यता भवेद्भवत इत्याशयाह-संयोगमात्रेत्यादि ।
संयोगमात्रसापेक्षा यदि तु स्युर्जलादयः।
योगानन्तरमेव स्यात्कार्यमेतेन वा भवेत् ॥ ६६५ ॥ यदि हि संयोगमात्रसापेक्षाः स्युस्तदा प्रथमोपनिपात एव क्षित्यादिभ्योऽङ्करादिकार्योदयप्रसङ्गः पश्चाद्वदुविकलकारणत्वात् । अथ प्रथमोपनिपाते न भवति पश्चा