________________
पञ्जिकासमेतः ।
२१९
अपि चाविशिष्टेऽपि निरन्तरमिदं वस्तु सान्तरमिदमिति बुद्धिभेदः कथं युज्यते, यद्येतौ संयोगविभागाविह वस्तुन्यर्थान्तरभूतौ न स्यातां नहि विशेषप्रत्ययो वस्तुविशेषमन्तरेण संभवी भवितुमर्हति सर्वदा सर्वत्र भावप्रसङ्गात् ॥ ६५८ ॥
,
या चेयं सान्तरे बुद्धिर्नैरन्तर्यावसायिनी ।
निरन्तरेऽपि या चान्या मिथ्याबुद्धिरियं द्विधा ॥ ६५९ ॥ मिथ्याबुद्धिश्च सर्वैव प्रधानार्थानुकारिणी ।
प्रधानं चेह वक्तव्यं तदुक्तौ तौ च सिद्ध्यतः ।। ६६० ।।
किंच येयं दूरतरावस्थितेऽपि धवखदिरादौ विदूरदेशवर्त्तिनः पुंसो निरन्तरावसायिनी बुद्धिरुदयमासादयति, या चेयमीषत्तरुशिखरावलग्ने बलाकादौ निरन्तरेऽपि सान्तरत्वमिवावस्यन्ती जायतेऽन्या, सेयं द्विविधाऽप्य तस्मिंस्तथारूपेण प्रवृत्तत्वान्मिथ्याबुद्धिः, न च मिध्याधीर्मुख्य पदार्थानुभवमन्तरेण क्वचिदुपजायते । नाननुभूतगोदर्शनस्य गवयपदार्थदर्शनागौरयमिति विभ्रमो भवति । तस्मादवश्यं कश्चिमुख्यः पदार्थोऽस्या विभ्रमधियो निबन्धनमभिधानीयः । तस्याभिधाने च तौ संयोगविभागौ सिध्यतः । नहि तद्व्यतिरेकेणान्यदस्या बुद्धेर्निबन्धनमुपपादयितुं शक्यते
1
।। ६५९ ।। ६६० ॥
कुण्डलीति मतिश्रेयं किन्निमित्तोपजायते । नरकुण्डलभावान्नो सर्वदा तत्प्रसङ्गतः ॥ ६६१ ॥ अन्यत्र दृष्टभावस्य निषेधोऽन्यत्र युज्यते । संयोगश्च भवेदृष्टः स कथं प्रतिषिध्यते ।। ६६२ ।। चैत्रोऽकुण्डल इत्येवं तस्मादस्त्येव वास्तवः । यन्निषेधविधानादि विभागेन प्रवर्त्तते ॥ ६६३ ॥
अपिच कुण्डली देवदत्त इति मतिरियमुपजायमाना किंनिबन्धनोपजायत इति वचनीयम् । नच पुरुषकुण्डलभावमात्रभाविनी भवितुमर्हति । सर्वदा तत्र देवदत्तकुण्डलयोस्तस्याः सद्भावप्रसङ्गात् । किंच यदेव केनचित्क्वचिदुपलब्धसत्त्वं तस्यैवान्यत्र विधिप्रतिषेधमुखेन लोकव्यवहारप्रवृत्तिर्दृष्टा । यदि भवता संयोगो न कदाचिदुपलब्धस्तत्कथमस्य चैत्रोऽकुण्डलः कुण्डली चेत्येवंविभागेन व्यवहारो भवेत् । तथासत्र चैत्रोऽकुण्डलीत्यनेन न कुण्डलं प्रतिषिध्यते तस्य देशकालभेदेन सत्त्वाध्या