________________
२१८
तत्त्वसङ्ग्रह। यो संयोगविभागौ च द्रव्येषु नियतौ परैः।
संयुक्तादिधियो हेतू कल्पिती तावनर्थको ॥ ६५३ ॥ यथाक्रमं द्रव्येषु संयुक्तविभक्तप्रत्ययहेतू अप्राप्तप्राप्तानां प्राप्त्यप्राप्तिस्वभावावन्यतरोमयकर्मजौ च संयोगविभागजौ च संयोगविभागाविति परप्रक्रिया । एतच प्रक्रि. यामात्रमेव । नत्वनयोर्वस्तुसत्त्वसिद्धौ किंचन प्रमाणमस्तीत्यतोऽनर्थकावेतौ कल्पितौ परैः । प्रयोगः यस्य न किंचित्साधकं प्रमाणमस्ति न तत्प्रेक्षावतां सद्व्यवहारविपयो यथा वन्ध्यासुतादि, नास्ति च संयोगविभागयोः साधकं प्रमाणं परेषामिति व्यापकानुपलब्धेः ॥ ६५३ ॥ बीजोदकेत्यादिनोद्योतकरमतोपदर्शनाद्धेतोरसिद्धतामाशङ्कते
बीजोदकरथिव्यादि सर्वदा कार्यकारकम् । प्रसक्तं निर्विशेषत्वात्संयोगासंभवेन तु ॥ ६५४॥ क्षेत्रबीजजलादीनि सापेक्षाणीति गम्यते । स्वकार्यकरणान्नित्यं दण्डचक्रोदकादिवत् ॥ ६५५ ॥ यस्तैरपेक्ष्यते भावः स संयोगो भविष्यति । सविशेषणभावाच भिन्न एवेति गम्यते ॥ ६५६ ॥ संयुक्त आहरेत्युक्ते संयोगं प्रेक्षते ययोः।
तदन्यपरिहारेण ते एवाहरति खयम् ॥ ६५७ ॥ स याह । यदि संयोगो नार्थान्तरं भवेत्तदा क्षेत्रबीजादयो निर्विशिष्टत्वात्सर्वदेवाहुरादि कुर्युः, न चैवम् । तस्मात्सर्वदा कार्यानारम्भा क्षेत्रादीन्यङ्करादिकार्योत्पत्ती कार्यान्तरसापेक्षाणि, यथा मृत्पिण्डदण्डसलिलसूत्रादयो घटादिकरणे कुम्भकाराविसापेक्षाः । योऽसावपेक्ष्यः स संयोग इति सिद्धम् । किंच योऽसौ संयोगो द्रव्ययोः स विशेषणभावेन प्रतीयमानत्वात्ततोऽर्थान्तरत्वेन प्रत्यक्षत एव सिद्धः । तथाहिकश्चित्केनचित्संयुक्ते द्रव्ये आहरेत्युक्ते ययोरेव द्रव्ययोः संयोगमुपलभते । त एवाहरति न द्रव्यमात्रम् , अन्यथा यत्किचिदाहरेत् । एतच सर्व विपर्ययाद्विभागसाधनेऽपि योज्यम् ।। ६५४ ॥ ६५५ ॥ ६५६ ॥ ६५७ ॥
निरन्तरमिदं वस्तु सान्तरं चेदमित्ययम् । . पुद्धिभेदश्च केनैष विद्यते तौ च चेदिह ॥ ६५८ ॥