________________
पलिकासमेतः।
२१७ रस्यामिप्रायः । तदत्रापि परिमाणवदसिद्धत्वमनैकान्तिकत्वं च हेतोरिति हृदि कृत्वाह -अपोद्धारेत्यादि ।
अपोद्धारव्यवहृतिः पृथक्त्वाचा तु कल्प्यते ।
कारणात्सा विभिन्नात्मभावनिष्ठा न कि मता ॥ ६५१ ॥ . तथाह्यत्रापि रूपादिभ्यो विवेकेन नापरमर्थान्तरं पृथक्त्वं नाम प्रत्यक्षबुद्धौ प्रतिभासत इति न सिद्धमस्य तत्प्रत्ययविलक्षणबुद्धिग्राह्यत्वम् । अत एव च तस्योपल. ब्धिलक्षणप्राप्तत्वेनाभिमतस्यानुपलम्भादसत्त्वमेव । न चापि पृथगिति विकल्पप्रत्ययवशात्तस्य सिद्धिः । त एव हि रूपादयो भावाः स्वस्वभावस्थितेः सर्वभावानां सजातीयविजातीयव्यावृत्तात्मतयाऽपेक्ष्यमाणाः पृथगिति व्यवहारनिबन्धनं भविष्यन्तीति नातो वस्त्वन्तरसिद्धिः । तस्माद्येयमपोद्धारव्यवहृतिः-व्यवहारः पृथक्त्वाकारणाद्वर्ण्यते सा किमिति समानासमानजातीयविभिन्नस्वभावभावनिष्ठा न मता। तनिष्ठेव युक्तेति भावः । एतेनानैकान्तिकत्वं हेतोर्दर्शितम् । विभिन्न आत्मा स्वभावो येषां ते तथोक्ताः । ते च ते भावाश्च, तेषु निष्ठा-परिसमाप्तिर्यस्या इति विग्रहः ॥ ६५१॥ साध्यविपक्षेऽपि हेतोवृत्तिदृश्येतेति दर्शयन्नाह-परस्परविभिन्ना हीत्यादि ।
परस्परविभिन्ना हि यथा बुद्धिसुखादयः ।
पृथग्वाच्यास्तदङ्गं च विनाऽन्येन तथाऽपरे ॥ ६५२॥ नहि सुखादिषु गुणेषु पृथक्त्वं गुणोऽस्ति, निर्गुणत्वाद्गुणानाम् । अथ च परस्परव्यावृत्तात्मतया ते पृथगिति वाच्या भवन्ति । तस्याश्चापोद्धारव्यवहृतेरङ्ग निमित्ततां प्रतिपद्यन्ते । तथाऽपरेऽपि घटादयो द्रव्यामिमता विनाऽन्येन-खव्यतिरिक्तेन पृथक्त्वनाम्ना गुणेन भविष्यन्तीति । नचापि तेषु भाक्तोऽयं प्रत्ययो मुख्यप्रत्ययाविशिष्टत्वादिति भावः । यद्वा-अपोद्धारव्यवहृतिं विभिन्नात्मपदार्थनिबन्धनां दर्शयप्रतिज्ञाया अनुमानबाधामाह-परस्सरेत्यादि । प्रयोगः—ये परस्परल्यावृत्तात्मानस्ते न स्वव्यतिरिक्तपृथक्त्वसमाश्रयाः, यथा सुखादयः । परस्परल्यावृत्तात्मानश्च घटादय इति खभावहेतुः । एकस्यानेकवृत्त्यसम्भवः, समवायस्थ निषेत्स्यमानत्वात्सम्बन्धानुपपत्तिः, सुखादिषु तव्यवहाराभावप्रसङ्गश्च बाधकं प्रमाणम् ।। ६५२ ॥ .. तत्र संयोगविभागयोर्दूषणार्थमाह-यावित्यादि ।
२८