________________
२१६
तत्त्वसङ्ग्रहः । तथा सत्यपि भवत्परिकल्पिते महत्त्वादौ प्रासादमालादिषु महदादिप्रत्ययप्रसूतिरनुभूयते । नचेत्यं शक्यं वक्तुम् । यत्रैव प्रासादादिषु मालाख्यो गुणः समवेतस्तत्र महत्त्वादिकमपि, तेनैकार्थसमवायबलात्तथा महतीत्येवं तन्मालादि व्यपदिश्यत इति । तदेतदपि स्वसमयविरुद्धमिति दर्शयन्नाहन महत्त्वमित्यादि । धामस्थिति । प्रासादेषु । विवक्षितमिति । क्रोशार्धक्रोशादि परिमाणम् ॥ ६४८ ॥ ६४९ ॥ कस्मानास्तीत्याह-प्रासादश्चेष्यत इति ।
प्रासादचेष्यते योगो गुणः सोऽपरिमाणवान् ।
न तस्यास्त्यपरा माला नोपचारस्य चाश्रयः॥ ६५०॥ तथाहि-भवद्भिः प्रासादः संयोगात्मको गुण इष्यते नावयविद्रव्यं विजातीयद्रव्यानारम्भात् । स च गुणः परिमाणवान भवति निर्गुणा गुणा इति समयात् । ततश्च गुणानां प्रासादादीनां मालाख्यस्यापरस्य गुणस्याभावात्प्रासादमालेत्येतदेव न स्यात् । कुतो महती इखेत्यादि भविष्यति । तथाहि-माला समाखभावेष्टा, सङ्ख्या च गुणत्वाद्रव्यमेवाश्रिता न गुणम् । यदाऽप्यवयविस्वभावा मालेष्यते तथापि द्रव्यस्य द्रव्यमेवाश्रयो न गुण इति न मालायाः प्रासादाश्रयत्वं युक्तम् । अथ जा. तिखभावा मालाऽङ्गीक्रियते । एवमपि जातेस्सर्वात्मना प्रत्याश्रयपरिसमाप्तत्वादेकोऽपि प्रासादो मालेत्युच्येत वृक्षवत् । यथोक्तम्-"गेहो यद्यपि संयोगस्तन्माला किन्तु तद्भवेत् । जातिश्चेद्रेह एकोऽपि मालेत्युच्येत वृक्षवत् ॥” इति । एका दीर्घा महतीत्यादिव्यपदेशानुपपत्तिश्च तदवस्यैव मालायाम् , तदाश्रये च प्रासादादावेकत्वादिगुणाभावात् । काष्ठादिषु च विवक्षितदैर्ध्याचसद्भावात् । बहीषु च प्रासादमालासु मालामालेत्यनुगामी व्यपदेशो न स्यात् । जातेरजातितः । यदाह-“माला बहुत्वे तच्छन्दः कथं जातेरजातितः” इति । अत उपचारस्याश्रयः परिग्रहो यद्वाऽऽश्रयोऽधिष्ठानं न युक्तमित्यर्थः । नचाप्ययं स्खलनतिर्मालादिषु महत्त्वादिप्रत्ययः । तस्मानौपचारिको युक्तः । नहि मुख्यप्रत्ययाविशिष्टो गौणो युक्तोऽतिप्रसङ्गात् । यदाह-मालादौ च महत्त्वादिरिष्टो यश्चौपचारिकः । मुख्याविशिष्टविज्ञानप्रासत्वानोपचारिकः ॥” इति ॥ ६५०॥
तत्र इदमस्मात्पृथगिति याशात् संयुक्तमपि द्रव्यमपोद्रियते, तदपोद्धारकारणं पृथक्त्वं नाम, सब घटादिभ्योऽर्थान्तरं तत्प्रत्ययविलक्षणबुद्धिप्राशत्वादिति पूर्ववत्स