________________
पलिकासमेतः।
२१५ ण्डललक्षणम् । अनित्यं व्यणुक एव । कुवलामलबिल्वादिषु च महत्वपि तत्प्रकर्षाभावमपेक्ष्य भाक्तोयं व्यवहारः । यादृशं ह्यामलके महत्परिमाणं न तादृशं कुवल इति । एवमन्यत्रापि योज्यम् । अत्र त्र्यणुकादिषु वर्तमानयोमहत्त्वदीर्घत्वयोर्यणुके चाणुत्वाइखत्वयोः को विशेषः? । उच्यते । तत्रास्ति महत्त्वदीर्घत्वयोः परस्परतो विशेषः । महत्सु दीर्घमानीयतां दीर्येषु च महदानीयतामिति व्यवहारभेददर्शनात् । अणुत्वहस्खत्वयोस्तु विशेषस्तदर्शिनां योगिनां प्रत्यक्ष इत्येषा परेषां प्रक्रिया । एतच्च महदादि रूपादिभ्योऽर्थान्तरत्वेन सिद्धं तत्प्रत्ययविलक्षणबुद्धिप्राह्यत्वात्सुखादिवदिति परो मन्यते । तत्र यदि तावद्रूपादिविषयेन्द्रियबुद्धिविलक्षणप्रत्यक्षप्रत्ययग्राह्यत्वादिति हेत्वर्थोऽभिप्रेतस्तदा हेतोरसिद्धता । नहि तथातथाऽवस्थितरूपादिपदार्थव्यतिरेकेण महदादिपरिमाणमिन्द्रियबुद्धौ प्रतिभासमानमुपलक्ष्यते । अथ-अणु महदादीयेवं या विकल्पिका बुद्धिः सा तत्प्रत्ययविलक्षणा बुद्धिरमिप्रेता । एवमप्यनैकान्तिकता हेतोर्विपक्षे बाधकप्रमाणाभावात् । नास्याः परमार्थतः किंचिदपि ग्राह्यमस्ति सामिजल्पत्वात् । केवलं तेष्वेव रूपादिष्वेकदिशुखादिप्रवृत्तेषु दृष्टेषु तद्विलक्षणेभ्यो रूपादिभ्यो भेदप्रतिपादनाय कृतसमयानुरोधान्महदित्यध्यवस्यन्ती जायत इति नातो वस्त्वन्तरसिद्धिः । अतएव चाऽस्या न रूपादिव्यतिरिक्तमवसेयमस्तीत्यसिद्धताऽपि हेतोः । प्रतिज्ञायाश्च प्रत्यक्षबाधा, प्रत्यक्षत्वेनेष्टस्य महदादे रूपत्वादिव्यतिरेकेणानुपलम्भात् । तस्मात्तदपि परिमाणमर्थे रूपादावेकदिशुखादिप्रवृत्ते तस्यार्थस्यातथोद्भूताद्वेदमाश्रित्य किं न तादात्म्येनेष्टम् । एवं ह्यदृष्टायुक्तपदार्थकल्पना न कृता स्यादित्येवकारेण दर्शयति । तथा कदिङ्मुखप्रवृत्ते भूयसि रूपादिके दृष्टे स्पृष्टे वा दीर्घमिति व्यवहरन्ति । तदपेक्षया चाल्पीयसि समुत्पन्ने हस्खमिति । एवं महदादिष्वपि योज्यम् । रूपादिनिषेधवञ्चैकानेकविकल्पाभ्यां महदादिनिषेधो वाच्यः ।। ६४७ ॥
अपि च साध्याभावेऽपि हेतोवृत्तिदर्शनादनैकान्तिकता स्फुटतरेति दर्शयन्नाहदीपेत्यादि ।
दीर्घा प्रासादमालेति महती वेद्यते यथा। नहि तत्र यथारूपं परिमाणं प्रकल्पितम् ॥ ६४८ ॥
एकार्यसमवायेन तथा चेद्ध्यपदिश्यते। ...... न महत्त्वं न देयं च धामखस्ति विवक्षितम् ॥ ६४९ ॥