________________
२१४
तत्त्वसङ्ग्रहः । इच्छेत्यादिना प्रतिविधत्ते।
इच्छारचितसङ्केतमनस्काराशुपायतः ।
तत्रेष्टसिद्धिर्बुद्ध्यादौ मयतेनैव वा भवेत् ॥ १४५ ॥ गजादिव्यतिरिक्तस्य सङ्केतमनस्कारादेरान्तरस्य निमित्तत्वेनेष्टत्वात्सिद्धसाध्यतैव । आदिशब्देन सङ्केतस्मरणादिपरिप्रहः । अथ सङ्केताभोगादिव्यतिरिक्तपदार्थनिबन्धनं साधयितुमभिप्रेतं तदानैकान्तिकतेति प्रसङ्गोद्भावनव्याजेन दर्शयति-बुख्यादौ सङ्ख्यैतेनैव वा भवेदिति । एतेनैव-तत्प्रत्ययविलक्षणत्वादित्यनेन । एका बुद्धि बुद्धी पञ्च कर्माणीत्यादावपि सङ्ख्या भवेत्-प्राप्नोति । तत्राप्येकादिबुद्धेस्तत्प्रत्ययविलक्षणत्वात् न च भवति, तस्मादनैकान्तिक इति भावः ॥ ६४५ ॥
किंच याऽनेकद्रव्या द्वित्वादिसङ्ख्या तस्या येऽयमेकत्वेभ्योऽनेकबुद्धिसहितेभ्यो निष्पत्तिर्वर्ण्यते भवद्भिः सा निर्निबन्धनेति दर्शयति-बुद्ध्यपेक्षा चेत्यादि ।
बुद्ध्यपेक्षा च सङ्ख्याया निष्पत्तिर्यदि वर्ण्यते ।
सङ्केत्ताभोगमात्रेण तद्बुद्धिः किं न संमता ॥ ६४६ ॥ मात्रग्रहणमेकत्वद्वित्वादितत्सामान्यतत्सम्बन्धज्ञानव्यवच्छेदार्थम् । तद्बुद्धिरिति । सोयेषु द्वे त्रीणि चत्वारीत्यादिका बुद्धिः सङ्केताभोगमात्रेण किं न संमता । एवं घदृष्टसामर्थ्यस्य हेतुत्वं न कल्पितं स्यादन्यथा हि हेतूनामनवस्था भवेत् । तथाहपेक्षा बुद्धिसद्भावे तद्गतान्वयव्यतिरेकानुविधानात्सैव कल्पयितुं युक्ता । अन्यथा हि हरीतकी प्राप्य देवता विरेचयन्तीत्यपि कल्पनीयं भवेत् । नापि समुपयादिव्यावृत्तपदार्थव्यतिरेकेणोपलब्धिलक्षणप्राप्ताऽमिमता द्वित्वादयो दृश्यन्ते संगच्छन्ते वा, ए. कस्यानेकस्मिन्वृत्तेः प्रतिषिद्धत्वात् । सामान्यसमवाययोश्च निषेत्स्यमानत्वादिति भावः ॥ ६४६॥ महदित्यादिना परिमाणप्रतिषेधमाह
महद्दीर्घादिभेदेन परिमाणं यदुच्यते । - तदप्यर्थे तथा रूपभेदादेव न किं मतम् ॥ ६४७॥
परिमाणव्यवहारकारणं परिमाणं तबतुर्विधं महदणु दीर्घ इखमिति । वत्र महद्विविषं नित्यमनित्यं च । नित्यमाकाशकालदिगात्ममुः परममहत्त्वं । अनिसं त्र्यणुकादिद्रव्येषु । तथाऽण्वपि द्विविधं नियमनिलं च । नित्यं परमाणु मनः सुपरिम