________________
पत्रिकासमेतः।
२१३ स्खलति प्रत्ययः, गौरिव गौर्नतु गौरेव सानाधभावादिति, न तथायं स्खलति, ए. कमिवैकं शानादि नत्वेकमेवेति । किं तर्हि यादृशी घटादिष्वस्खलिता बुद्धिर्भवति वादशी झानादिष्वपि ॥ ६३९ ॥ ६४० ॥ * सादेतन सादृश्यापेक्षमेतज्ज्ञानमुपवर्ण्यते । किन्तु यत्तेषामाश्रयभूतं द्रव्यं तद्तैकत्वादिकादेकार्थसमवायित्वादेतद्गुणकर्मसमवायादिष्वेकादिज्ञानं भवतीति तदेतदाशङ्कयन्नाह तद्रव्येत्यादि।
तद्रव्यसमवेताचेदेकत्वात्परिकल्प्यते।
गुणादिष्वेकविज्ञानमेकार्थसमवायतः॥ ६४१॥ अत्रोत्तरमाह-अस्तुनामेत्यादि।
अस्तुनामैवमेकत्र ज्ञाने व्याप्ति(न्यादि)मतिस्तु कम् । एतेष्वपेक्षते हेतुं षट्पदार्थादिकेषु वा ॥ ६४२॥ एकार्थसमवायादेगीणोऽयं प्रत्ययो भवन् ।
तथा च स्खलितो यस्मान्माणवेऽनलबुद्धिवत् ॥ ६४३ ॥ यदि हि तद्व्यसमवेतादेकत्वादेरेतज्ज्ञानं तदाऽस्तु नामैकत्र ज्ञाने सुखादौ चैकात्मद्रव्यसमवायिन्येकमेकमिति ज्ञानम् । द्वे त्रीणि चत्वारि ज्ञानानीत्यादिज्ञानस्य तु को हेतुः, नहि तत्रैकात्मगतं द्वित्वाद्यस्ति । यश्चैतदुच्यते षट्पदार्थाः, सुखदुःखे, इच्छाद्वेषौ, पञ्चविधं कर्म, सामान्यं द्विविधं परमपरं च, एको भावः, एकः समवाय इति, तत्र को हेतुः । नहि तत्रैकार्थसमवायिनी सङ्ख्यास्ति, तस्मादन्यापिनीत्वादियमपि कल्पना न युक्ता । किं चैकार्थसमवायोऽन्यो वा स्वमतिपरिकल्पितो हेतुरुच्यते । तथाऽप्येकार्थसमवायादेरयं भवन्प्रत्ययो गौणः स्याद्वस्त्वन्तराभावात् । ततस्तु स्खलितः स्याद्यथा माणवकेऽनलप्रत्ययस्तत्प्रवृत्तिनिमित्ताभावात्, नचैवं भवति तस्मात्पूर्वोक्तदोषानिवृत्तिरेव ।। ६४२ ॥ ६४३ ॥ गजादीत्यादिनाऽविद्धकर्णोक्तं सङ्ख्यासिद्धये प्रमाणमाशङ्कते । __ गजादिप्रत्ययेभ्यश्च वैलक्षण्यात्प्रसाध्यते। . सयाबुद्धिस्तदन्योत्था नीलवस्त्रादिबुद्धिवत् ॥ ६४४ ॥ समाह-सङ्ख्याप्रत्ययो गजतुजस्पन्दनादिव्यतिरिक्तनिवन्धनो गजादिप्रत्ययविक्षणत्वानीलपटप्रत्ययवदिति । तदन्योत्थेति । तस्माद्गजतुरगस्सन्दनादेरन्यस्तद्न्यतत उत्यानं यस्या इति विग्रहः ॥ ६४४॥