________________
२१२
तस्वसङ्ग्रहः। नामि विवादः । न चाणुत्वेऽप्याश्रितत्वाद्गुणत्वं युक्तम् । सदसतोराश्रयानुपपत्तेरतिप्रसङ्गाप । तया सवयविद्रव्यमवयवद्रव्याश्रितमिति तदपि गुणः स्वादिति भावः ॥ ६३७ ॥
तत्रैकादिन्यवहारहेतुरेकत्वादिलक्षणा सया, सा पुनरेकद्रव्या पानेकद्रव्या च, तत्रैकसायैकद्रव्या । अनेकद्रव्या तु द्वित्वादिसङ्ख्या । तत्रैकद्रव्यायाः सलिलादिपरमाण्वादिगतरूपादीनामिव नित्यत्वनिष्पत्तयो बोद्धव्याः । अनेकद्रव्यायास्तु-एकत्वेभ्योऽनेकविषयबुद्धिसहितेभ्यो निष्पत्तिरपेक्षाबुद्धिविनाशाद्विनाशः कचिदाश्रयविनाशादिति । इयं च द्विविधाऽपि सङ्ख्या किल प्रत्यक्षत एव सिद्धा । विशेषबुढेश्व निमित्तान्तरापेक्षत्वादनुमानतोपीति परो मन्यते । तत्रास्याः प्रतिषेधमाह-अतद्पेत्यादि ।
अतद्रूपपरावृत्तगजादिव्यतिरेकिणी।
न सङ्ख्या भासते ज्ञाने दृश्येष्टा नैव सास्ति तत् ॥ ६३८ ॥ येषु हि समुच्चयादिव्यावृत्तेषु गजादिषु संज्ञा निवेशिता न तद्व्यतिरेकेणोपलब्धिलक्षणप्राप्ता सङ्ख्या ख्यातास्तीति सा शशविषाणवदसद्व्यवहारविषया । तथाह्यसौ दृश्यत्वेनेष्टा । तथा च सूत्रम्-"सङ्ख्यापरिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे कर्म च रूपिसमवायाचाक्षुषाणी"ति ॥ ६३८ ॥ नचापि विशेषबुद्धितः सङ्ख्यासिद्धिरिति दर्शयमाह इच्छारचितेत्यादि ।
इच्छारचितसङ्केतमनस्कारान्वयं खिदम्। घटेष्वेकादिविज्ञानं ज्ञानादाविव वर्तते ॥ ६३९ ॥ अद्रव्यत्वान्न सङ्ख्याऽस्ति तेषु काचिद्विभेदिनी।
तज्ज्ञानं नैव युक्तं तु भाक्तमस्खलितत्वतः ॥ ६४०॥ यथा होकं ज्ञानं वे ज्ञाने इत्यादौ सङ्ख्यामन्तरेणाप्येकादिबुद्धिर्भवत्येवं घटादिष्वप्यसहायादिषु पदार्थेज्वेक इत्यादिः खेच्छया यः सङ्केतो विहितस्तत्र यो मनस्कार आभोगस्तदन्वयमेकादिज्ञानं भविष्यतीत्यनैकान्तिकमेतत् । नहि तेषु ज्ञानादिषु सभाऽस्ति, एषामद्रव्यत्वात् । सङ्ख्यायाश्च गुणत्वेन द्रव्याश्रितत्वात् । अथ मतं गौणमिदं वेषु, ज्ञानमेकमिवैकं, साधर्म्य चात्रासहायत्वादि (तत्राह ?) तज्ज्ञानमिति । नैव तज्ज्ञानं भाकं युक्तमस्खलद्गतित्वादस्य प्रत्ययस्य । नहि यथा बाहीको गौरिति