________________
पणिकासमेतः। क कस्य समवायच संवन्धिन्यपहस्तिते।
विशेषप्रतिषेधोऽयं तथापि पुनरुच्यते ॥१५॥ पचपदार्थवृत्तिरूपो हि समवायो वर्ण्यते । द्रव्यादौ च संबन्धिनि पचप्रकारेsपहसिते क कस्य समवायो नैव कस्यचित्कचिदित्यर्थः । सर्वेषामाश्रयाश्रितानां प्रतिषिद्धत्वात् तत्र गुणानां तावविशेषप्रतिषेध उच्यते ॥ ६३५ ॥
तत्र "रूपरसगन्धस्पर्शाः सङ्ख्यापरिमाणानि पृथक्त्वसंयोगविभागौ परत्वापरत्वे बुद्धयः सुखदुःखे इच्छाद्वेषौ प्रयत्नश्च गुणा” इति सूत्रम् । चशब्दाद्गुरुत्वद्वत्वमेहसंस्कारधर्माधर्मशब्दाश्च परिगृह्यन्ते । तत्र रूपं चक्षुर्मायं पृथिव्युदकज्वलनवृत्ति । रसो रसनेन्द्रियप्रायः पृथव्युदकवृत्तिः । गन्धो प्राणप्रायः पृथिवीवृत्तिः । स्पर्शस्त्वगिन्द्रियप्रायः क्षित्युदकज्वलनवायुवृत्तिः । एषां चतुर्णामाद्यानां रूपादीनां प्रतिषेधमाह-द्रव्ये महतीत्यादि।
द्रव्ये महति नीलादिरेक एव यदीष्यते ।
रन्ध्रालोकेन तद्व्यक्ती व्यक्तिदृष्टिश्च नास्य किम् ॥ ६३६ ॥ महत्येव हि द्रव्ये समवेतानामुपलब्धिलक्षणप्राप्तत्वमतो महतीसाह । तत्र प द्रव्ये यधेकमेवानवयवं नीलादि चतुर्विधमिष्यते, तदा सूक्ष्मेणाऽपि कुधिकादिविवरवर्तिना प्रदीपाद्यालोकेन त्वपवरकादिस्थितपृथुतरघटादिद्रव्यसमवेतस्य नीलादिरूपस्यामिव्यक्तौ सत्यां सकलस्यैव यावद्रव्यवर्तिनो रूपादेरमिव्यक्तिरुपलब्धिश्च प्राप्नोति निरवयवत्वात् । न कस्यावयवाः सन्ति, येनैकदेशामिव्यक्तिर्भवेत् । रन्धालोकेनेत्युपलक्षणम् । भुव एकदेशे जलेन गन्धस्यामिव्यक्तौ प्रदेशान्तरेप्यमिव्यक्त्युपलब्भ्योः प्रसनः । ज्वालादेराम्रफलादेश्चैकदेशस्य स्पृष्टावाखाद्ने च तद्रव्यसमवायिनस्तावतः स्पर्शस्य रसस्य चोपलब्धिः स्यात् ॥ ६३६ ॥ यादेतद्भवत एव सकलस्य नीलादेरुपलब्ध्यमिव्यक्ती इत्याह-न चेत्यादि ।
न च देशविभागेन स्थितो नीलादिरिष्यते।
व्यज्यते यस्तदा तेन तस्य भेदोऽणुशस्ततः ॥ ६३७॥ तदेति । तस्मिन्काले । तेनेति । रन्धालोकेन । तस्येति । नीलादेः । अणुशः खमेदेऽनीक्रियमाणे पृथिव्यादिपरमाणुद्रव्यवदणुपरिमाणयोगित्वेन गुणवत्त्वाइव्यरूपवैव सातू , न गुणत्वम् । एवम्भूतानां चाणुशो मिमानां गुण इति संज्ञाकरणेन