________________
तत्त्वसङ्कहः।
सौगतापरनिर्दिष्टमनःसंसियसिद्धये । साकारमन्यथाऽऽवृत्तं मन्ये सूत्रमिदं कृतम् ॥ ६३३ ॥
इति द्रव्यपदार्थपरीक्षा।। एतदेवं मन्ये सौगततीर्थिकयोरभीष्टस्य मनसः सिद्ध्यसिद्ध्यर्थमिदं "युगपत् शा. नानुत्पत्तिर्मनसो लिङ्ग"मिति सूत्रम् । एकस्मिन्पक्षेऽकारप्रश्लेषादिति समुदायार्थः । अवयवार्थस्तूच्यते । सौगताश्चापरे च तीथिकास्तैर्निर्दिष्टे च ते मनसी चेति विप्रहः । तयोर्यथाक्रम संसिद्ध्यसिद्धी संसिद्धिसहिता वाऽसिद्धिः, तदर्थ तनिमित्तम् । कथं पुनरेकं सूत्र विरुद्धमर्थद्वयं गमयतीत्याह-साकारमित्यादि । सहाकारेण वर्तत इति। परकीयमनोऽसिद्ध्यर्थमलिङ्गमिति प्रश्लिष्टाकारो निर्देशः । सौगतमनस्सिद्धयेऽन्यथा भवति-अनकारमित्यर्थः । साकारत्वानकारत्वे कथमेकस्य सिद्ध्यत इत्याह-आवृत्तमिति । आवृत्तिस्तत्र न्याय्येति यावत् ॥ ६३३ ॥
इति द्रव्यपदार्थपरीक्षा।। गुणादीनां निषेधमाह-द्रव्याणामित्यादि ।
द्रव्याणां प्रतिषेधेन सर्व एव तदाश्रिताः।
गुणकर्मादयोऽपास्ता भवन्त्येव तथा मताः ॥ ६३४ ॥ गुणकर्मादयो विशेषपर्यन्ता द्रव्याणां प्रतिषेधादेवापास्ताः, तदाश्रितत्वादेषाम् । आश्रयाभावे चाश्रितानां परतत्रतयाऽवस्थानुपपत्तेः । तथा मता इति । तथा साक्षात्पारम्पर्येण वा द्रव्याश्रितत्वेनेष्टाः । तथाहि-गुणकर्मणी साक्षादेव द्रव्याश्रितवेनाभीष्टे । तथा च सूत्रम् । “दव्याश्रय्यगुणवान्संयोगविभागेष्वकारणमनपेक्ष" इति गुणलक्षणम् । “एकद्रव्यमगुणं संयोगविभागेष्वनपेक्षं कारण"मिति कर्मलक्षपम् । एकद्रव्यमिति । एकद्रव्याश्रितमित्यर्थः । गुणास्तु केचिदनेकद्रव्यवर्तिनो भवन्ति, यथा-संयोगविभागादयः । सामान्यविशेषाश्च केचिद्रव्यवृत्तय एव, यथा -पृथिवीत्वादयः । गुणत्वकर्मत्वादयश्च द्रव्यसंबद्धगुणकर्मपदार्थवृत्तयः, महासामान्यं तु सचाख्यं द्रव्यादिपदार्थत्रयवृत्ति । तस्माद्रव्ये प्रतिषिद्धे सत्ययमेनैव गुगादयोऽपि निषिद्धा भवन्तीति । परिशिष्टपदार्थपरीक्षाफलं द्रव्यपरीक्षायामेव समासमिति दर्शितं भवति ॥ ६३४ ॥ .
समकावप्रतिषेधस्तर्हि पृषगारमन्य इति चेदाह-ककलेत्यादि ।