________________
पलिकासमेतः।
२०९ स्कार:-आभोगः स निबन्धनमस्येति तथोक्तम् । अतएव नेतरेतराश्रयदोषः, विशिटपदार्थसङ्केतनिवन्धनवादस्य ज्ञानस्येति । अत: कारणमात्रे साध्ये सिद्धसाध्यता, विशेषेण साधनेऽनुमानबाधा, अनन्वयदोषश्च पूर्ववदिति सूचयन हेतोश्चेष्टविपरीतसाधनाविरुद्धतेति दर्शयति-निरंशेत्यादि । तयोरिति । दिकालयोः । परापरादिज्ञानस्य निरंशैकदिकालाख्यपदार्थनिबन्धनत्वं साधयितुमिष्टं, तब न सिध्यति । तथाहि खाकारानुरूपं प्रत्ययमुत्पादयन् विषयो भवति । नच निरंशस्य पौर्वापर्यादिविभागः संभवति, येन तत्कृतं पौर्वापर्यादिज्ञानं भवेत् । अत इष्टविपरीतसाधनाद्विरुद्धो हेतुः । संबन्धिभेदाच्चेदित्यनेन परस्योत्तरमाशङ्कते । अथ मतम्-दिका. लसंबन्धिनो भावा बाह्याभ्यात्मिकाः प्रदीपशरीरादयः, तेषां पौर्वापर्यादि विद्यते, ततस्तयोरपि दिकालयोः संबन्धिगतमेतत्पौर्वापर्यादि निर्दिश्यते, तस्मान विरुद्धता हेतोरिति भावः । अत्रोत्तरमाह-एवं तौ निष्फलौ नन्विति । एवं हि कल्प्यमाने तो दिकालौ निष्फलौ स्याताम् । तत्साध्यामिमतस्य कार्यस्य तैरेव संबन्धिमिनिष्पादितत्वात् । तथाहि-कालः पूर्वापरक्षणलवनिमेषकाष्ठाकलामुहूर्ताहोरात्राऽर्द्धमासादिप्रत्ययप्रसवहेतुः । दिक पूर्वोत्तरादिव्यवस्थाहेतुरिष्यते । अयं च भेदः सफलस्तयोर्न स्वात्मनि विद्यते । भेदेषु पुनरस्तीति व्यथैव तत्परिकल्पना ॥ ६२९॥ ॥६३०॥
मनःसाधनहेतोरपि सामान्येन कारणमात्रे साध्ये सिद्धसाध्यतेति दर्शयतिचक्षुरादीत्यादि ।
चक्षुरायतिरिक्तं तु मनोऽस्माभिरपीष्यते। षण्णामनन्तरोद्भूतप्रत्ययो यो हि तन्मनः ॥ ६३१ ॥ नित्ये तु मनसि प्राप्ताः प्रत्यया योगपद्यतः।
तेन हेतुरिह प्रोक्तो भवतीष्टविघातकृत् ॥ ६३२॥ विशेषेण तु नित्यैकमनस्साधनेऽनन्वयः प्रतिज्ञाया अनुमानबाधा विरुद्धता च हेतोर्दर्शयति-नित्ये वित्यादि । इष्टविघातकृदिति । चक्षुरादिव्यतिरिक्तानित्यकारणसापेक्षत्वसाधनात् , अन्यथा नित्यकारणत्वे सत्यविकलकारणत्वात्क्रमोत्पत्तिर्विरूध्येत चेतसाम् ।। ६३१ ॥ ६३२ ॥
तामेव च विरुद्धतां हेतोपहासपूर्वकं दृढीकुर्वनाह-सौगतेत्यादि । ..
१७