________________
२०९ ।
तत्वसङ्ग्रहः।
- नैपामिति । सिध्यतीति पूर्वेण संबन्धः । प्रतिज्ञायाश्चानुमानविरोधित्वमिति द. र्शयति-अक्रमाद्याप्तितस्तथेति । यथोक्तं नमःसमवायित्वमेषां न सिखतीति संबन्धः । यदि हि नित्यैकनभोद्रव्यसमवेता अमी स्युः, सदा सकृदुत्पन्नानेकशब्दवदतत्काला अपि शब्दा अमिमत एव काले स्युः, अविकलकारणत्वात् , एकाश्रय-' त्वाच । नच नित्यस्य परापेक्षास्तीति प्रतिपादितमेतत् । नचाप्यनुपकारिणः समवायित्वं युक्तमतिप्रसङ्गात् । तदेवमक्रमत्वप्रसङ्गः । आदिशब्देन सर्वपुरुषैर्ग्रहणादिदोषप्रसङ्गश्च । तथापाकाशात्मकमेव श्रोत्रं नमश्चैकमेव, ततश्च तत्प्राप्तानां सर्वेषामपि शब्दानां श्रवणं भवेत् , नहि निर्विभागत्वेन तस्यायं प्रतिनियमो युक्तः, इदमात्मीयं श्रोत्रमिदं परकीयमिति । स्यान्मतम्-तदीयादृष्टामिसंस्कृता या कर्णशष्कुली तत्परिच्छिन्नस्यैवाकाशस्य श्रोत्रत्वमत एव न मुखनासिकादिविवरान्तरेण शब्दोपलम्भो जायते, तस्या एव च कर्णशष्कुल्या उपघाताद्वाधिर्यादिर्व्यवस्थाप्यत इति । एतदयुक्तमेव, निरंशतयाऽऽकाशस्यैवंविधविभागस्यायोगात् । नच परिकल्पिता अवयवविभागा भाविकवस्तुविभागसंसाध्यामर्थक्रियामारोपवशात्संपादयितुमीशते । नहि जलमनल इत्युपचर्यमाणं ज्वलति दहति वा । अथ मतमाकाशस्य(स्यैक ?) देश इति संयोगस्याऽव्याप्यवृत्तित्वमु(त्वादु ?)च्यत इति । एतदपि प्रत्युक्तमेव । किंच-घटकर्णशष्कुल्यादयोऽप्यमिन्नैकव्योमसंसर्गितया समानदेशा भवेयुः । येनैव हि व्योमखभावेनैकः संयुज्यते तेनैवापरेऽपीति, ततश्चामिमतदेशभाविन एवापरेऽपि घटादयः स्युः, तत्संयुक्तस्वभावाकाशसंयोगित्वात् , तद्देशावस्थितघटादिवत् । अतएव शब्दानामप्येकदेशत्वं भवेत् , ततश्च दूरासन्नतरदेशभेदावस्थाऽतिप्रतीता येयं पदार्थानां केषांचित्सा विरोधिनी त्यादित्येवमादयो दोषा बहवः प्रसर्पन्ति ॥ ६२८ ॥
कालदिक्साधनयोरपि सामान्येन सिद्धसाध्यता विशेषेणान्वयासिद्धिहेतोः प्रतिज्ञायाश्चानुमानबाधेति दर्शयति-विशिष्टेत्यादि ।।
विशिष्टसमयोद्भूतमनस्कारनिवन्धनम् । परापरादिविज्ञानं न कालान दिशश्च तत् ॥ ६२९ ॥ निरंशैकखभावत्वात्पौर्वापर्यायसम्भवः ।
तयोः संबन्धिभेदाचेदेवं तो निष्फलौ ननु ॥ ६३०॥ विशिष्टसमयः-पौ पर्याविनोत्पनेष्वेवार्थेषु पूर्वापराविसहेवः, पदुतो मन.