________________
परिजकासमेतः।
- २०७ मूर्त द्रव्यमवधिं कृत्वा मृर्तेष्वेव द्रव्येषु तस्मादिदं पूर्वेण, दक्षिणेन, पश्चिमेन उत्तरेण, पूर्वदक्षिणेन, दक्षिणापरेण, अपरोत्तरेण, उत्तरपूर्वेण, अधस्तादुपरिष्टादिति दश प्रत्यया अमी यतो भवन्ति सा दिगिति । तथाच सूत्रं-इत इदमिति यतस्तदिशो लिङ्गमिति । यत एते विशेषप्रत्ययाः, नच विशेषप्रत्यया आकस्मिका युक्ताः, नच परस्परं मूर्त्तद्रव्यव्यपेक्षा, इतरेतराश्रयत्वेनोमयाभावप्रसङ्गात् , तस्मादन्यनिमित्तासम्भवाहिश एतानि लिङ्गानि तस्याश्च दिशः कालवदेकत्वविभुत्वादयो गुणा बो
व्याः । एकत्वेऽपि दिशः कार्यविशेषात्याच्यादिभेदेन नानात्वम् । प्रयोगः-यदेतत्पूर्वापराविज्ञानं तन्मू-द्रव्य(मिन्न ?)पदार्थनिबन्धनम् , तत्प्रत्ययविलक्षणत्वात्सुखादिज्ञानवदिति । मनसो लिङ्गमाह-क्रमेणेत्यादि । युगपदनेकेन्द्रियार्थसन्निकर्षसान्निध्येऽपि क्रमेण ज्ञानोत्पत्तिदर्शनादस्तीन्द्रियार्थव्यतिरिक्तं कारणान्तरं यस्य सनिधानासन्निधानाभ्यां ज्ञानस्योत्पत्त्यनुत्पत्ती भवत इति । तस्मात्क्रमेण ज्ञानजात्याज्ञानोत्पत्त्या, मनसोऽनुमितिः क्रियते । तथाच सूत्रम्-युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गमिति । प्रयोगः-येयं रूपादिप्रतिपत्तिः सा चक्षुरादिव्यतिरिक्तकारणापेक्षिणी, क्रमेण जायमानत्वात् , रथादिवदिति ॥ ६२५ ॥ ६२६ ॥ उपात्तादीत्यादिना प्रतिविधत्ते ।
उपात्तादिमहाभूतहेतुत्वाङ्गीकृतेर्वनेः।
सिद्धा एवाश्रिताः शब्दास्तेष्वित्याचमसाधनम् ॥ ६२७॥ यदि सामान्येनाश्रितत्वमात्रमेषां साध्यते शब्दानां तदा सिद्धसाध्यता हेतोः । तथाहि-शब्दा उपात्तानुपात्तमहाभूतहेतुका इष्यन्ते । तेषु च भूतेषु तत्कायतया समाश्रिता एव । तत्प्रतिबद्धात्मलाभतया कार्याणां कारणाश्रितत्वात् । उपातानि-चित्तचैत्तैः स्वीकृतानि । आदिशब्देनानुपात्तमहाभूतहेतुकत्वपरिप्रहः । तेविति । उपात्तादिमहाभूतेषु । इतीति । तस्मादित्यर्थः । आद्यमिति । 'समाश्रिताः
कचिच्छब्दा' इत्यादिना यदुक्तं तदसाधनं सिद्धसाध्यतादोषादिति भावः ॥ ६२७ ॥ । अथामूर्तनित्यैकविमुद्रव्यसमवेतत्वेनामीषामाश्रितत्वं विशिष्टमेव साधयितुमिष्टं तदा साध्यान्वितस्य दृष्टान्तस्याभावादनैकान्तिकता हेतोरित्येतदर्शयति-एकेत्यादि ।
एकव्यापिधुवव्योमसमवायस्तु सिद्धयति । नैषामन्वयवैकल्यादनमायातितस्तथा ॥ ६२८ ॥