________________
२०६
तत्त्वसङ्ग्रहः।
तथा अयंशब्दो न पृथिव्यादीनां चतुर्णा गुणो युक्तः, प्रत्यक्षत्वे सत्यकारणगुणपूवकत्वात् , अयावद्रव्यमावित्वात् , आश्रयादन्यत्रोपलब्धेश्च । यथोक्तधर्मविपरीता हि स्पर्शवतां गुणा दृष्टाः । प्रत्यक्षत्वे सतीति विशेषणं पाकजैः परमाणुगतैरनेकान्तवपरिहारार्थम् । बालेन्द्रियप्रत्यक्षत्वादात्मान्तरप्राह्यत्वादहकारेण विभक्तग्रहणाच नामनो गुणः । आत्मगुणानां हि सुखादीनामेतद्वैपरीत्यदर्शनात् । श्रोत्रप्राह्यत्वाच न दिकालमनसाम् । अतः पारिशेष्याद्गुणो भूत्वाऽऽकाशस्य लिङ्गम् । तञ्चाकाशं शब्दलिङ्गाविशेषाद्विशेषलिङ्गाभावादेकं सर्वत्रोपलभ्यमानगुणत्वात्-विभुगुणवत्त्वात् । अनाश्रितत्वाच द्रव्यम् । अकृतकत्वान्नित्यमित्येषा प्रक्रिया परेषाम् ॥ ६२२ ॥ आदित्यादीत्यादिना कालसाधनमाह
आदित्यादिक्रियाद्रव्यव्यतिरेकनिवन्धनम् । परापरादिविज्ञानं घटादिप्रत्ययो यथा ॥ ६२३ ॥ वलीपलितकार्कश्यगत्यादिप्रत्ययादिदम् । .
यतो विलक्षणं हेतुः स च कालः किलेष्यते ॥ ६२४ ॥ द्रव्यशब्देन वलीपलितादयो ग्रहीतव्याः । परः पिता, अपरः पुत्रः, युगपत् , चिरं, क्षिप्रं, क्रियते, कृतं, करिष्यते चेति यदेतत्परापराविज्ञानं तदादित्यादि क्रियाद्रव्यव्यतिरिक्तपदार्थनिबन्धनम् , वलीपलितादिप्रत्ययविलक्षणत्वात् , घटादिप्रत्ययवत् । यो हेतुरस्य स सामर्थ्यात्कालः । तथाहि-न तावद्देशकृतोऽयं परापरादिप्रत्ययः । परदिग्भागावस्थितेऽपि स्थविरे पर इति ज्ञानोत्पत्तेः । तथाऽपरदिग्भागावस्थायिन्यपि पुत्रेऽपर इति । नापि वलीपलितादिकृतः, तत्प्रत्ययविलक्षणत्वात् । नापि क्रियाकृतः, तज्ज्ञानविलक्षणत्वादेव । तथाच सूत्रम्-अपरं परं युगपदयुगपचिरं क्षिप्रमिति काललिङ्गानीति । नित्यत्वैकत्वादयो धर्मा आकाशवदेवास्य बोद्धव्याः ॥ ६२३ ॥ ६२४॥ दिक्प्रसाधनार्थमाह-पूर्वापरादिबुद्धिभ्य इति ।
पूर्वापरादिबुद्धिभ्यो दिगेवमनुमीयते। क्रमेण ज्ञानजात्या च मनसोऽनुमितिर्मता ॥ ६२५ ॥ चक्षुरादिविभिन्नं च कारणं समपेक्षते। क्रमेण जाता रूपादिप्रतिपत्ती रथादिवत् ॥ ६२६ ॥